Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मपरीक्षा
॥२८३॥
[ कपच्छेदतापयोगात् परीक्षितव्या च सा सुवर्णमिव । एषा धर्मपरीक्षा ज्ञातव्या बुद्धिमता ॥ ८६ ॥ ]
व्याख्या-सा आज्ञा, कषच्छेदतापयोगात् सुवर्णमिव परीक्षणीया । यथाहि -युक्तिस्वर्ण जात्यवर्णे च सुवर्णमात्रसाम्येन मुग्धलोकैरभेदेन प्रतीयमाने कपच्छेदतापैर्विचक्षणास्तत्परीक्षणं कर्त्तुमुत्सहन्ते, तथाऽऽज्ञायामपि मुग्धैः सर्वत्र नाममात्रादेकत्वेन प्रतीयमानायां विचक्षणास्तत्परीक्षां कपच्छेदतापैः कर्त्तुमुत्सहन्त इति बुद्धिमतैषा धर्मपरीक्षा ज्ञातव्या । यैव ह्याज्ञा सा सर्व एव धर्म इत्याज्ञापरीक्षेव धर्मपरीक्षेति भावः ।। ८६ ।। कपादीनेवात्र योजयितुमाह
विहिपडिसे हा उ कसो, तज्जोगक खेमकारिणी किरीया । छेओ तावो य इहं, वाओ जीवाइतत्ताणं ॥ ८७ ॥ [विधिप्रतिषेधौ तु कपः तद्योगक्षेमकारिणी क्रिया ।। छेदः तापश्च इह वादो जीवादितच्चानाम् ॥ ८७ ॥ ]
व्याख्या- 'विहिप डिसेहाउ' त्ति । विधिः - अविरुद्धकर्त्तव्यार्थोपदेशकं वाक्यम् । यथा-स्वर्ग - केवलार्थिना तपोध्यानादि कर्त्तव्यमित्यादि । प्रतिषेधः पुनर्न हिंस्यात् सर्वभूतानीत्यादि । एतौ द्वाविह धर्मपरीक्षायां कष एव, सुवर्णपरीक्षायां कषपट्टकरेखेव । इदमुक्तं भवति-यत्र धर्मे उक्तलक्षणौ विधिप्रतिषेधौ पुष्कलावुपलभ्येते स धर्मः कषशुद्धः, न पुनः - "अन्यधर्मस्थिताः सत्त्वा, असुरा इव विष्णुना । उच्छेदनीयास्तेषां हि वधे दोषो न विद्यते || १ ||" इत्यादिवाक्यगर्भ इति । तयोर्विधिप्रतिषेधयोर्योगोऽनाविर्भूतयोः सम्भवः, क्षेमं चाविभूतयोः पालना, तत्कारिणी क्रिया भिक्षाटनादिवाह्यव्यापाररूपा छेदः । यथा कषशुद्धावप्यन्तर्गतामशुद्धिमाशङ्कमानाः सौवर्णिकाः सुवर्णगुलिकादे छेदमाद्रियन्ते, तथा कपशुद्धावपि धर्मस्य छेदमपेक्षन्ते प्रेक्षावन्तः । स च छेदो विशुद्धबाह्यचेष्टरूपः, विशुद्धा च चष्टा सा यत्रासन्तावपि विधिप्रतिषेधावबाधितरूपौ खात्मानं लभेते, लब्धात्मानौ चातिचारविरहितावुत्तरोत्तरां वृद्धिमनुभ
:
सटिप्पणा ||खोपज्ञ
वृतिः ॥
गाथा-८६
८७
॥२८३

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304