Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मपरीक्षा
सटिप्पणा ॥ खोपड़
चिः ॥ गाथा-८४ ॥२८॥
गमनस्य तत्सुतरां स्यादिति तद्व्यसनवतः सत्य किप्रभृतेः सम्यक्त्वमुच्छिद्येत । एतेन 'बिलवासिनामपि मनुजानां तथाविधकर्मक्षयो
पशमेन यदि मांसपरिहारनियन्तृत्वं तदा सम्यग्दृशां तत्सुतरां स्यादिति मांसभक्षणे सम्यक्त्वक्षतिरेव इति निरस्तम् , सम्यक्त्वस्य भाव॥२८॥ धर्मत्वेन कुलधर्ममात्रत्वाभावात् , तथाविधकर्मपरिणतेरनुचितप्रवृत्तिमतोऽपि श्रद्धानगुणेन तदनपगमात् । अन्यथा स्तेनानामपि केषाञ्चि
त्परदारगमनपरिहारनियन्तृत्वात् , ततोऽनिवृत्तस्य सत्यकिप्रभृतेः सम्यक्त्वमुच्छिद्येतैवेति ।। न च मांसाहारस्य नरकायुर्बन्धस्थानत्वादेव तदनिवृत्तौ न सम्यक्त्वमिति शङ्कनीयम् , महारम्भमहापरिग्रहादीनामपि तथात्वात् , तदनिवृत्तौ कृष्णवासुदेवादीनामपि सम्यक्त्वापगमापत्तेः॥ किश्च-सम्यक्त्वधारिणां कृष्णप्रभृतीनां मांसभक्षणेऽपि सम्यक्त्वानपगमः शास्त्रेऽपि श्रूयते । तदुक्तं षष्टाङ्गे (अ०१६) तएणं से दुवए राया कंपिल्लपुरं णगरं अणुपविसइ, अणुपविसित्ता विउलं असणं ४ उवक्खडावेइ, उवक्खडावित्ता कोडुंबियपुरिसे सद्दावेइ सद्दावित्ता एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया विउलं असणं ४ सुरं च मजं च मंसं च सीधुं च पसन्नं च सुबहुपुप्फफलवत्थगधमल्लालंकारं च वासुदेवप्पामोक्खाणं रायसहस्साणं आवासेसु साहरह तेवि साहरति तएणं ते वासुदेवप्पामोक्खा तं विउलं असणं ४ जाव
पसन्नं च आसाएमाणा विहरंति"ति। न चात्र मांसभक्षणादिकं खपरिवारभूतमिथ्यादृशामेव 'तदाज्ञानिमित्तकत्वात् तत्कर्तृकं' व्यपदिइष्टमिति शङ्कनीयम् , 'वासुदेवप्रमुखा' इत्यत्र सर्वेषामेकक्रियायोगात् सम्यक्त्वनाशके तत्र तदाज्ञापनस्याप्यनुपपत्तेश्च ॥ यत्तु वर्णनमात्र
त्वेनैवत्सूत्रस्याकिञ्चित्करत्वं परेणोद्भाव्यते, तस्य महानेव कृतान्तकोपः। एवं सति स्वर्गद्धर्यादिप्रतिपादकसूत्राणामपि वर्णनमात्रत्वेनाकि
श्चित्करताया वावदूकेन वक्तुं शक्यत्वाद् , लोकनिन्द्यविषयमात्रेणापि यथास्थितार्थप्रतिपादकसूत्रविलोपे नास्तिकत्वस्यानिवारितप्रसरतया ५ सर्वविलोपप्रसङ्गादिति ॥ किश्च-यद्यनन्तकायादिमांसादिभक्षणे सम्यक्त्वस्य मूलोच्छेदः स्यात् तदा तत्र तपः प्रायश्चित्तं नोपदिष्ट स्यात्,
CCCCAMERA
PRICORRECARSHA
ACC

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304