Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 294
________________ धर्मपरीक्षा ॥ २८२ ॥ उक्तश्च तत्तत्र । तदुक्तं श्राद्धंजीत सूत्रवृत्योः- “चउगुरु णंते, चउलहु, परित्तभोगे सचित्तवज्जिस्स । मंसासववयभंगे, छग्गुरु चउगुरु अणाभोग ।। ९९ ।। " व्याख्या - "मचित्तवर्जकस्य श्रावकादेः 'अनन्त'त्ति अनन्तकायानां मूलकार्द्रकादीनां भक्षणे चतुर्गुरु प्रायश्चित्तं भवति । यदागमः - "सो उण जिणपडिकुट्ठो, अनंतजीवाण गायणिफण्णो || गेही पसंगदोसो, अनंतकाओ अओ गुरुगा ||१||" तथा सचित्तवर्जकस्यैव श्राद्धादेः, 'परित्त 'त्ति प्रत्येक परिभोगे - प्रत्येकाम्रादिपुष्पफलादिभोगे चतुर्लघु प्रायश्चित्तम् । तथा मांसासत्रयोरुपलक्षणान्मधुनवनीतयोश्च 'वयभंगे' त्ति अनाभोगतः पृथग्वक्ष्यमाणत्वादत्राभोगतो ज्ञेयम् । ततश्चाभोगे सति व्रतस्य नियमस्य भङ्गे षड्गुरु, 'चउगुरु'त्ति अनाभोगे सति मांसासत्रमधुनवनीतानां व्रतभङ्गे चतुर्गुरु प्रायश्चित्तं भवतीति गाथाक्षरार्थ इति ॥" ततो मांसभक्षणे सम्यक्त्वं नश्यत्येव' इत्ययमपि कुविकल्प एवेति बोध्यम् ॥ ८४ ॥ ननु विकल्पोच्छेदेनाज्ञया प्रवृत्तिर्हितावहोक्ता । न चाज्ञामात्रानुसरणं हितावहं सम्भवति, सर्वत्र सौलभ्याद्, दृश्यन्ते हि सर्वेऽपि निजनिजगुर्वाद्याज्ञायत्ता इत्युपादेयाज्ञाविशेषमाह - आणा पुण जगगुरुणो, एगंत सुहा वहा सुपरिसुद्धा ॥ अपरिक्खिआ ण गिज्झा, सा सव्वा णाममितेणं ॥८५॥ [आज्ञा पुनर्जगद्गुरोरेकान्तसुखावहा सुपरिशुद्धा || अपरीक्षिता न ग्राह्या सा सर्वा नाममात्रेण || ८५ ॥] व्याख्या- 'आणा पुण'त्ति आज्ञा पुनर्जगद्गुरो त्रिभुवनधर्मगुरोर्भगवतो वीतरागस्य, सुपरिशुद्धा सम्यक्परीक्षा प्राप्ता, एकान्तसुखावहा नियमेन स्वर्गापवर्गादिसुखहेतुर्ग्राह्येति योगः । माऽऽज्ञा सर्वा नाममात्रेणापरीक्षिता सती न ग्राह्या, प्रेक्षावप्रवृत्तेः परीक्षा नियतत्वादिति भावः ॥ ८५० ॥ एतत्परीक्षोपायमाह कस छेय- तावजोगा, परिक्खियव्वा य सा सुवण्णं व ॥ एसा धम्मपरिक्खा, णायव्वा बुद्धिमंतेणं ॥ ८६ ॥ सटिप्पणा || स्वोपज्ञ ॥ गाथा-८५ ॥२८२ ॥

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304