Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
नियमस्फोरणं विनेति । केचित्तु 'केवली कदाचिदपि प्राणानामतिपातयिता न भवतीति' यत्केवलिनो लिङ्गमुक्तं तत्सर्वाप्रमत्तानामपि धर्मपराक्षासमानमिति तद्व्यावृत्यर्थ छद्मस्थलिङ्गेषु 'कंदाचिद्' इति विशेषणमुक्तम् । इत्थं चाप्रमत्तानां प्रमत्तगुणस्थानवर्तित्वे प्रमत्तत्वात् कदा-12
सटिप्पणा ॥२७१॥
| चिद्भावतोऽपि यत्प्राणातिपातकत्वं सम्भवति, न तु केवलिनः, तस्य देशोनपूर्वकोटीकालमप्यप्रमत्तत्वस्यैव भावादिति विशेषोऽवबुद्धो वृत्तिः॥
भवति । न चाप्रमत्ता अपि सर्वदा प्राणानतिपातका एव भवन्ति, प्रमत्तत्वेन प्राणातिपातकत्वे त्वप्रमत्ता एव नोच्यन्ते इत्यतिप्रसक्तमे- तगाथा-८३ | वैतल्लक्षणमिति वाच्यम् , अप्रमत्तस्य प्रमत्तगुणस्थानवर्त्तिनो जीवघाते अहो 'अप्रमत्तोऽपि जीवघातं करोति' इति व्यपदेशसम्भवात् , IP ॥२७॥ चतुर्दशपूर्व्यादीनां चतुर्गतिकत्वादिवचनवदेतदुपपत्तेः। यथाहि-"भगवानपि भुवनगुरुरुन्मार्गदेशनात्सागरोपमकोटाकोटी भ्रान्तः" इति योगशास्त्रवृत्तिवचनम् । लोकेऽपि च घृतघटे घृताभावेऽपि 'घृतघट' इति व्यपदेशो भाविनि भूतवदुपचारेण दृश्यते, तथै-16 वाप्रमत्तादिगुणस्थानवर्त्तिनोऽपि प्रमादवत्त्वे भावतः प्राणातिपातकत्वादिव्यपदेशो भवति नतु केवलिनः, तस्य कदाचिदपि प्रमादवत्त्वाभावादिति नातिव्याप्त्यादिदोष इत्याहुः ॥ तेषां यद्ययमाशयोऽप्रमत्तसंयतेषु केवलित्वगमकप्राणातिपाताभावादिलिङ्गानां व्यभिचारः, 'कदाचिदपि' इति विशेषणेन तद्योग्यताभावानां लिङ्गत्वलाभेन वार्यत इति छद्मस्थलिङ्गेषु 'कदाचिद्' इति विशेषणं योग्यतास्पष्टत्वा
र्थमिति तदा सा योग्यता प्राणातिपातादिप्रागभावरूपा ग्राह्येति केवलिपरीक्षायां क्षपकश्रेणावपूर्वकरणादीनां तदभावात्तेषु व्यभिचारो | दुर्वारः। छद्मस्थपरीक्षायां च प्रमत्तस्यैव पक्षत्वे योग्यताग्रहणवैफल्यम्, सर्वेषां तु छद्मस्थानां पक्षत्वे तेष्वेवासिद्धिरिति किमप्रमत्तादाद वौपचारिकप्राणातिपातकत्वादिविवक्षया ? इति प्रमत्ताप्रमत्तसाधारणपक्षकछमस्थत्वसाधने प्राणातिपातादिलिङ्गेषु 'कदाचिद्' इति विश
पणेन साध्याधिकरणकिञ्चित्कालावच्छिन्नत्वं देवम् , केवलित्वगमकलिङ्गेषु च साध्याधिकरणयावत्कालावच्छिन्नत्वं देयमिति नोद्देश्या.
MICROCHACH
ES

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304