Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 281
________________ दिनिषेधरूपाणां केवलित्वगमकलिङ्गत्वं प्रतिमत्तव्यम् । यत्तु छद्मस्थत्वज्ञापकलिङ्गेषु कदाचिद्' इति विशेषणं टीकाकारेण दत्तं तत्सप्ताबमपराक्षानामपि लिङ्गानां स्वरूपासिद्धिवारणार्थम् , नहि छमस्थसाधावनवरतं प्राणातिपातादिशीलत्वं सम्भवतीति । यच्च केवलित्वज्ञापकलिङ्गेषु ॥२६९॥ 'कदाचिदपि'इति विशिष्टविशेषणमुपात्तं तच्छबस्थसाधौ व्यभिचारवारणाय; भवति ह्येतद्विशेषणं विना छद्मस्थसाधौ प्राणातिपाताद्यभा वावस्थायां हेतुषु विद्यमानेषु केवलित्वाभावेन व्यभिचार इति ॥ अत्र वदन्ति 'सत्तहिं ठाणेहिं छउमत्थं जाणिज्जा' इत्यत्राप्रमत्तस्य पक्षीकरणे प्राणातिपातकत्वादयः सर्वेऽपि हेतवः स्वरूपासिद्धतामाप्नुवन्ति, प्राणातिपातादिनिमित्तक्रियाभावेन तस्य प्राणातिपातकत्वाद्यभावात । यथाहि-कर्मग्रन्थाद्यभिप्रायेण निद्रोदयस्याप्रमत्तादिगुणस्थानेषु सत्त्वेऽपि न तेन प्रमत्तत्वम् ,द्रव्यतो निद्राविषयादिवत्वस्य प्रमत्तत्वाप्रयोजकत्वात् । तथा द्रव्यतो जीवविराधनायामप्यप्रमत्ताः प्राणातिपातका न प्रोच्यन्त इति । न चौपचारिकैरपारमार्थिकैर्द्रव्यतः प्राणातिपातकत्वादिभिस्त्वत्कल्पितैरपि पारमार्थिकं छद्मस्थत्वं साधयितुं शक्यते, द्रव्यतो विरतिमहाव्रतवत्वादिभिः परित्राजकेप्वभव्यनिह्नवादिषु च पारमार्थिकविरतत्वचारित्रित्वादिसाधनप्रसक्तेः। किश्च-औपचारिकं प्राणातिपातकत्वं 'यावजीवः सयोगस्तावदारभते' इत्याद्यागमवचनादेव प्रसिद्धव्यभिचारमिति सद्भूतप्राणातिपातकत्वादिभिश्छद्मस्थत्वस्य साधनात् प्रमत्त एवात्र पक्षीकार्यः, तेन | न स्वरूपासिद्धिः, तत्र पारमार्थिकानां हेतूनां सत्त्वादिति । किञ्च 'व्यापादनशीलो भवति' इत्यत्र "फलनिरपेक्षा वृत्तिः शीलम्" इति शीलार्थत्वात् , तस्याश्च स्वभावनिबन्धनत्वात्प्राणातिपातादिस्वभावहेतुसिद्धयर्थं प्रमत्त एव पक्षीकर्तव्य इति । न च प्रमत्तत्वादेव तत्र छद्मस्थत्वरूपसाध्यस्यापि प्रतीतत्वात्साध्यत्वाभावः, 'अप्रतीतमनिराकृतमभीप्सितं साध्यम्'इति(प्रमाणन००परि०३सू०१४)वचनादिति वाच्यम् , व्यामूढमनसां तद्व्यामोहनिवृत्त्यर्थ छद्मस्थत्वस्य साध्यमानत्वोपपत्तेः। “प्रसिद्धानां प्रमाणानां, लक्षणोक्तौ प्रयोजनम्॥ तव्यामोहनिवृत्तिः सटिप्पणा || खोपड़ चिः ॥ गाथा-८३ ॥२६९॥ -RECAUCAUSEUM

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304