Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
सटिप्पणा
खोपड़ वृचिः ॥ गाथा-८३ ॥२७॥
पश्चस्वेव, चरमयोस्तु द्वयोर्लिङ्गयोः सामान्यतः सर्वकालीनत्वेन सूक्ष्मदृशां पुरःस्फूर्तिकत्वात् , ताभ्यां छद्मस्थत्वनिर्णयो विवक्षितपरीधर्मपरीक्षा
क्षाकाले सुलभ एव । तथाहि-इच्छाकारादिसाधुसामाचारीपरायणस्य छमस्थसंयतस्य गमनागमनस्थितिशयनाशनासनप्रत्युपेक्षणादिक्रि॥२६७॥ यासु चक्षुषा पुनः पुनर्निरीक्षण, निरीक्ष्य च यथासम्भवं रजोहरणादिना प्रमार्जनं, प्रमृज्य च हस्तपादाद्यवयवानां यथास्थानेऽभ्यसनं
त्वपरावर्तनं, तथैव वस्त्रपात्राद्युपकरणानामादाननिक्षेपणम् , प्रमृजतश्च रजोहरणादिक्रियया मक्षिकापिपीलिकादीनां भयत्रासोत्पादनेनेतस्ततो नयनं चेत्याद्यनेकप्रकारमनुष्ठानं सम्भावितभाविजीवधातादिदोषभयजन्यं कालमधिकृत्यानियतमप्यन्यतम(र)त्किचिदनव| रतं भवत्येव, तत्रापि पिपिलीकादिजन्तूनां भयत्रासोत्पादनं सावधमिति प्रज्ञाप्य जीवघातवर्जनाभिप्रायवतोऽप्यशक्यपरिहारेण तत्प्रति&ाषेवणं षष्ठलिङ्गात्मकं छमस्थत्वाभिव्यञ्जकं सामान्यतः सर्वकालीनं सुलभमेव ॥ तत्प्रतिषेवणे च संयतो न यथावादी तथाकतत्यपि मन्त
व्यम् , अशक्यपरिहारेणापि प्रत्याख्यातस्य सावद्यस्य प्रतिषेवणादिति केवलिनोऽपि परीक्षायां विपरीतानि छद्मस्थलिङ्गानि द्रव्यरूपा
ण्येव ग्राह्याणि, तेषामेव छद्मस्थज्ञानगोचरत्वेनानुमितिजनकत्वात् । यथाहि-छद्मस्थसंयतोऽनाभोगसहकृतमोहनीयवशेन कदाचित्प्राणाहनामतिपातयिता भवति, परीक्षोपयोगिघात्यजीवानां सम्पर्कस्य तद्विषयकानाभोगस्य च कादाचित्कत्वातः तथा केवली न भवति, इत्येवं
प्राणातिपातादिविपर्ययलिङ्गेद्रव्यरूपैः केवलित्वं साध्यमिति ॥ स च केवली द्विविधो ग्राह्यः-सद्भूतकेवली, अन्तर्मुहूर्तभाविकेवलज्ञानाभिमुखःक्षीणमोहश्च । यथाहि बद्धदेवायुर्देवगत्यभिमुखत्वेन देवत्वव्यपदेशविषयः प्रवचने प्रतीतः,तथाऽन्तर्मुहर्तेनोत्पत्स्यमानकेवलज्ञानः क्षीणमोहोऽपि केवलिव्यपदेशविपयो भवत्येवेति, तथा 'भाविनि भूतवदुपच्चारः' इति न्यायात् प्रत्यासन्नभाविपर्यायस्य भूतवद्भणनं युक्तमेव । यथा गर्भस्थोप्यईन् शक्रेण भावार्हत्तया स्तुतः। एवं क्षीणमोहमात्रस्य छद्मस्थवीतरागस्यापि कथञ्चित्केवलित्वव्यपदेशो न
SCREGULAMUHUSA
BACHAR

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304