Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
वा मृषाभाषणं न भवत्येव, संयतानां जीवघातादावनाभोगसहकृतमोहनीयकर्मणो हेतुत्वात् ; मोहनीयाभावे चानाभोगो वास्तवमृषाभाधर्मपरीक्षा पणं प्रत्यकारणं सन्नपि सम्भावनारूढमृषाभाषणं प्रति कारणं भवत्येव, अनाभोगस्य तथाखभावस्यानुभवसिद्धत्वात् । तेन क्षीणमोहस्या
सटिप्पणा ॥२६६॥ प्यनाभोगहेतुकं सम्भावनारूढजीवविराधनावन्मृषाभाषणमपि भवत्येव; तच्च छद्मस्थज्ञानागोचरत्वेन छद्मस्थत्वावबोधकं लिङ्गं न भवति, स्वोपन
तस्य केवलज्ञानगम्यत्वात् । न च सम्भावनारूढस्य मृषाभाषणस्य मृषाभाषणत्वव्यपदेशो न भविष्यतीति शङ्कनीयम् , सम्भावनारूढं वृतिः ॥ मृषाभाषणमिति भणित्वापि मृषाभाषणव्यपदेशो न भविष्यतीति भणतो वदव्याघातापत्तः। किञ्च-जैनानामलोकेऽपि कल्पितलो
गाथा-८३
॥२६६॥ | कस्याङ्गीकारे कल्पनाया इव सम्भावनाया अपि प्रामाण्यमेव, अत एव कालशौकरिकस्य कल्पितमहिषव्यापादनं महिषव्यापादनतया
भगवता श्रीमहावीरेण भणितमिति प्रवचने प्रसिद्धिः, तस्मात् कर्मबन्धाहेतुत्वेऽपि सम्भावनारूढमृषाभाषणस्य स्नातकचारित्रप्रतिबन्धकत्वेन द्रव्यमृषाभाषणस्येव दोषत्वम् , चित्रलिखितायां नार्यां नारीत्वव्यपदेशस्येव मृषावादव्यपदेशस्य च विषयत्वं प्रतिपत्त| व्यमिति न दोष इति; तस्माद् यावदुपशान्तवीतरागमेव छद्मस्थत्वज्ञापकानि लिङ्गानीति स्थितम् । तानि च प्रत्यक्षगम्यानि | मिथ्याकारादिलिङ्गगम्यानि वा, 'अयं साधुः साक्षात् सम्भावनया वा प्राणातिपातादिप्रतिषेवितैव, मिथ्याकारान्यथानुपपत्तेः, अस्मदादिवद्'-इत्येवंलिङ्गगम्येनापि प्राणातिपातादिना लिङ्गेन 'छद्मस्थोऽयं संयतः' इत्येवं निश्चयसम्भवात् । स च मिथ्याकारः कादाचित्क एव जीवघातादौ भवति, पुनरकरणाभिप्रायेण तस्य फलवत्वात, सार्वदिकस्य तु तस्य सम्भवे सर्वविरतिपरिणामस्यैवानुपपत्तिः, प्रतिस
मयमनवरतं जीवघातो भवत्येव इत्यभिप्रायस्य तत्प्रतिबन्धकत्वादिति । अत्र च छद्मस्थत्वज्ञापकलिङ्गानां सप्तानामपि मोहनीयकर्मजकन्यत्वेन परस्परानुविद्धानां स्वरूपयोग्यतया निश्चयतः सर्वकालीनत्वेऽपि फलोपहितयोग्यतया व्यवहारेणानवरतं नियमाभावोऽप्यायेषु 8/
RECECK+CHECH
CAAAAHEADACA

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304