Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 276
________________ सटिप्पणा ॥स्वोषज्ञ वृत्तिः ॥ गाथा-८३ ॥२६४॥ [योऽपि च जायते मोहः, छद्मस्थजिनयोर्लिङ्गवचनात् ।। उपयुक्तस्य न तिष्ठति सोऽपि च परमार्थदृष्टौ ।। ८३ ॥] धर्मपरीक्षा जो वित्ति'। योऽपि च छद्मस्थजिनयोलिङ्गवचनात् स्थानाङ्गस्थात्, मोहो जायते दुर्व्याख्यातुाख्यां शृण्वता॥२६॥ मिति शेषः, सोऽपि परमार्थदृष्टावुपयुक्तस्य न तिष्ठति; अपण्डितव्याख्याकृतभ्रमस्य पण्डितकृतव्याख्याऽवधारणमात्रनिवर्तनी यत्वादिति भावः । तत्र छद्मस्थकेवलिलिङ्गवचनमित्थं स्थानाङ्गे व्यवस्थितम्-"सत्तहिं ठाणेहिं छउमत्थं जाणेजा । तंजहा-पाणे अइवइत्ता भवति१, मुसं बदित्ता भवतिर, अदिनमादित्ता भवति३, सद्दकरिसरसरूवगंधे आसाइत्ता भवति४, पूसकारमणुवूहित्ता भवइ५, 'इमं सावज्जति पण्णवेत्ता पडिसेवेत्ता भवति६, णो जहावादी तहाकारी यावि भवति ॥ सत्तहिं ठाणेहिं केवली जाणिज्जा । तंजहा-णो हापाणे अइवाइत्ता भवइ, जाव जहावाई तहाकारी यावि भवइ" इति । एतवृत्तियथा-"भयं च छद्मस्थस्यैव भवति, स च यैः स्थान आयते तान्याह-'सत्तहिं ठाणेहिं' इत्यादि। सप्तभिः स्थानैर्हेतुभूतै छद्मस्थं जानीयात् । तद् यथा-प्राणान तिपातयिता| तेषां कदाचिद् व्यापादनशीलो भवतीति । इह च प्राणातिपातनमिति वक्तव्येऽपि धर्मधर्मिणोरभेदादतिपातयितेति धर्मी निर्दिष्टः। प्राणा- | तिपातनाच्छद्मस्थोऽयमित्यवसीयते,केवली हि क्षीणचारित्रावरणत्वानिरतिचारसंयमत्वादप्रतिषेवित्वान्न कदाचिदपि प्राणानामतिपातयिता भवति इत्येवं सर्वत्र भावना कार्या तथा मृषा वदिता भवति । अदत्तमादाता-ग्रहीता भवति । शब्दादीनास्वादयिता भवति । पूजासत्कारी-पुष्पार्चनवस्त्राद्यर्चने, अनुवृंहयिता-परेण स्वस्य क्रियमाणस्य तस्यानुमोदयिता तद्भावे हर्षकारीत्यर्थः। तथेदमाधाकर्मादि सावयं सपापमित्येवं प्रज्ञाप्य तदेव प्रतिपेविता भवति । तथा सामान्यतो नो यथावादी तथाकारी-अन्यथाऽभिधायान्यथा कर्ता भवति । चापीति समुच्चये । एतान्येव विपर्यस्तानि केवलिगमकानि भवन्ति । इत्येतत्प्रतिपादनपरं केवलिसूत्रं सुगममेवेति ॥" 135555555ASSES HARRIGANGANGACA SSAGES

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304