________________
सटिप्पणा ॥स्वोषज्ञ वृत्तिः ॥ गाथा-८३ ॥२६४॥
[योऽपि च जायते मोहः, छद्मस्थजिनयोर्लिङ्गवचनात् ।। उपयुक्तस्य न तिष्ठति सोऽपि च परमार्थदृष्टौ ।। ८३ ॥] धर्मपरीक्षा
जो वित्ति'। योऽपि च छद्मस्थजिनयोलिङ्गवचनात् स्थानाङ्गस्थात्, मोहो जायते दुर्व्याख्यातुाख्यां शृण्वता॥२६॥ मिति शेषः, सोऽपि परमार्थदृष्टावुपयुक्तस्य न तिष्ठति; अपण्डितव्याख्याकृतभ्रमस्य पण्डितकृतव्याख्याऽवधारणमात्रनिवर्तनी
यत्वादिति भावः । तत्र छद्मस्थकेवलिलिङ्गवचनमित्थं स्थानाङ्गे व्यवस्थितम्-"सत्तहिं ठाणेहिं छउमत्थं जाणेजा । तंजहा-पाणे अइवइत्ता भवति१, मुसं बदित्ता भवतिर, अदिनमादित्ता भवति३, सद्दकरिसरसरूवगंधे आसाइत्ता भवति४, पूसकारमणुवूहित्ता भवइ५,
'इमं सावज्जति पण्णवेत्ता पडिसेवेत्ता भवति६, णो जहावादी तहाकारी यावि भवति ॥ सत्तहिं ठाणेहिं केवली जाणिज्जा । तंजहा-णो हापाणे अइवाइत्ता भवइ, जाव जहावाई तहाकारी यावि भवइ" इति । एतवृत्तियथा-"भयं च छद्मस्थस्यैव भवति, स च यैः स्थान
आयते तान्याह-'सत्तहिं ठाणेहिं' इत्यादि। सप्तभिः स्थानैर्हेतुभूतै छद्मस्थं जानीयात् । तद् यथा-प्राणान तिपातयिता| तेषां कदाचिद् व्यापादनशीलो भवतीति । इह च प्राणातिपातनमिति वक्तव्येऽपि धर्मधर्मिणोरभेदादतिपातयितेति धर्मी निर्दिष्टः। प्राणा- | तिपातनाच्छद्मस्थोऽयमित्यवसीयते,केवली हि क्षीणचारित्रावरणत्वानिरतिचारसंयमत्वादप्रतिषेवित्वान्न कदाचिदपि प्राणानामतिपातयिता भवति इत्येवं सर्वत्र भावना कार्या तथा मृषा वदिता भवति । अदत्तमादाता-ग्रहीता भवति । शब्दादीनास्वादयिता भवति । पूजासत्कारी-पुष्पार्चनवस्त्राद्यर्चने, अनुवृंहयिता-परेण स्वस्य क्रियमाणस्य तस्यानुमोदयिता तद्भावे हर्षकारीत्यर्थः। तथेदमाधाकर्मादि सावयं सपापमित्येवं प्रज्ञाप्य तदेव प्रतिपेविता भवति । तथा सामान्यतो नो यथावादी तथाकारी-अन्यथाऽभिधायान्यथा कर्ता भवति । चापीति समुच्चये । एतान्येव विपर्यस्तानि केवलिगमकानि भवन्ति । इत्येतत्प्रतिपादनपरं केवलिसूत्रं सुगममेवेति ॥"
135555555ASSES
HARRIGANGANGACA SSAGES