________________
धर्मपरीक्षा ॥२६३॥
नियमश्चैकान्तश्च सिद्धान्तस्य " रयणप्पभा सिय सासया सिय असासया इति" एवमनेकान्तप्रतिपादकं स्यादित्यादि तृतीयकांडे] सम्मतिगाथायां भजना भजनायाः समग्राऽविराधना । "इमा णं भंते । रयणप्पभा पुढवी किं सासया असासया ?, गोयमा ! सिय सासया, सिअ असासया " इति । स्याद्वाददेशनायां द्रव्यार्थतया शाश्वत्येव पर्यायार्थतया त्वशाश्वत्येवेत्यधिकृतभङ्गरूपनिर्द्धारणापेक्षया वृत्तौ व्याख्याता । निक्षेपादिप्रपञ्चोऽपि हि सर्वत्र स्याद्वादघटनार्थमेव, यतः “प्रस्तुतार्थव्याकरणादप्रस्तुतार्थापाकरणाच्च निक्षेपः फलवानुच्यते " ततश्च स्याद्वादसिद्धिरिति । अत एव सर्वत्रौत्सर्गिकी स्याद्वाददेश नैवोक्तेति सम्मत्यादिग्रन्धानुसारेण सूक्ष्ममीक्षणीयम् ॥ ८१ ॥ अथ य एवमवश्यम्भाविन्याऽपि जीवविराधनया सद्भूतदोषमुत्प्रेक्ष्य भगवतोऽसद्दोपाध्यारोपणं कुर्वन्ति तेषामपायमाविष्कुर्वन्नाह - मिच्छादोसवयणओ, संसाराडविमहाकडिल्लंमि ॥ जिणवरणिंदारसिआ भमिहिंति अणोरपारम्भ ॥ ८२ ॥ [ मिथ्यादोषवचनतः संसाराटवी महागहने । जिनवरनिन्दारसिका, भ्रमिष्यन्ति अनवक्पारे ।। ८२ ।। ] 'मिच्छादोसवणओ'त्ति । मिथ्यादोषवचनाद्-असद्भूतदोषाभिधानाद्, जिनवर निन्दारसिका अभव्या दूरभव्या वा जनाः, संसाराटवी महागहनेऽनवक्पारे भ्रमिष्यन्ति, तीव्राभिनिवेशेन तीर्थकराशातनाया दुरन्तानन्तसंसारहेतुत्वात् । उक्तञ्च “तित्थयरपवयणसुअं, आयरियं गणहरं महिड्डीयं ।। आसायंतो बहुसो, अनंतसंसारिओ होइ ॥ १ ॥ " इत्यादि । अथ केवलि - छनस्थलिङ्गविचारगया न केवलिनोऽवश्यम्भाविनी विराधना सम्भवतीति व्यामोहोऽपि न कर्त्तव्यः, सम्यग्विचारपर्यवसानत्वात्तस्य, इत्यभिप्रायवानाह - जोत्रिय जीयइ मोहो, छउमत्थजिणाण लिंगवयणाओ ॥ उवउत्तस्स ण चिट्ठइ, सोविय परमत्थदिडी ॥ ८३ ॥
सटिप्पणा ॥ खोपड वृतिः ॥ गाथा-८२ ॥२६३॥