________________
धर्मपरीक्षा ॥२६२॥
सटिप्पणा ॥स्वोपक्ष
-SECRECRUCAMKA
गाथा-८१ ॥२६२॥
देव भगवतां जीवरक्षा, नतु स्वरूपंत इत्यवश्यम्भाविन्यां जीवविराधनायां न किञ्चिद्वाधकमिति स्थितम् ॥८०॥ नन्वेवमवश्यम्भाविन्यापि जीवविराधनया केवलिनोऽष्टादशदोषरहितत्वं न स्याद् , हिंसादोषस्य तदवस्थत्वाद् । न 'देवोऽष्टादशदोषरहित एव'-इत्यत्राप्येकान्तवादो जनानामनिष्ट इति शङ्कनीयम् , अनेकान्तवादस्याप्यनेकान्तत्वेनात्रैकान्ताभ्युपगमेऽपि दोषाभावादित्याशङ्कायामाहदव्वारंभं दोसं, अट्ठारसदोसमज्झयारम्मि ॥ जो इच्छइ सो इच्छइ, णो दव्वपरिग्गहं कम्हा ॥ ८१॥
[द्रव्यारम्भं दोषं, अष्टादशदोषमध्ये ॥ य इच्छति स इच्छति न द्रव्यपरिग्रहं कस्मात् ॥ ८१ ॥] 'दवारंभंति। अष्टादशदोषमध्ये यो द्रव्यारम्भं दोषमिच्छति, स द्रव्यपरिग्रहं दोषं, कस्मान्नेच्छति ?। तथा च धर्मोपकरणसद्भावाद् द्रव्यपरिग्रहेण यथा न दोषवत्त्वं तथा द्रव्यारम्मेणापि न दोषवत्त्वम् , भावदोषविगमादेव भगवति निर्दोषत्वव्यवस्थितेरिति भावनीयम् । यच्चोक्तं निर्दोषत्वे भगवतो नानेकान्त इति, तदसद् ; दोषविभागकृतानेकान्तस्य तत्राप्यविरोधाद् । यच्चानेकान्तस्यानेकान्तत्वमधिकरणानियमापेक्षयोद्भावितं तत्केनाभिप्रायेण ? इति वक्तव्यम् , अन्ततः स्वपररूपापेक्षयाऽप्यनेकान्तस्य सर्वत्र सम्भवाद् , अत एवात्मानात्मापेक्षया सर्वत्रानेकान्तो वाचकपुङ्गवेनोक्तः प्रशमरतो॥ “द्रव्यात्मेत्युपचारः, सर्वद्रव्येषु नयविशेषेण ॥ आत्मादेशादात्मा, भवत्यनात्मा परादेशात् ॥२०२॥ इति । अनेकान्तस्यानेकान्तत्वं तु स्याद्वादाङ्गसप्तभङ्गीवाक्यघटकैकतरभङ्गावच्छेदक-| रूपाऽपेक्षया व्यवस्थितम् । अत एव ॥ "भयणा वि हु भइअवा, जह भयणा भयइ सबदवाई ॥ एवं भयणाणियमो वि, होइ समयाविराहणया (रोहेण)॥२७॥"त्ति [टी० यथा भजना अनेकान्तो भजते सर्ववस्तूनि तदतत्स्वभावतया ज्ञापयति, तथा भजनानेकान्तोपि भजनीयोऽनेकान्तोऽप्यनेकान्त इत्यर्थः । नयत्रमाणापेक्षया एकान्तश्चानेकान्तश्चेति । एवं ज्ञापनीय एवं च भजनाउनेकाना तन्नपति
BAAE AURORA
+
SH