________________
धर्मपरीक्षा ॥२६१॥
HASHISAITES
का सटिप्पणा
॥ खोपड वृचिः ॥ गाथा-७९
॥२६१॥
व्याख्या-'तं खलु'त्ति । तं लब्धिविशेषमुपजीवन्-जीवरक्षार्थ व्यापारयन् , खलु निश्चितं, जिनः केवली, तब मते प्रमादवान् स्याद् , 'लब्ध्युपजीवनं हि प्रमत्तस्यैव भवतीति' शास्त्रमर्यादा । अस्तु तहिं स लब्धिविशेषोऽनुपजीवित एव जीवरक्षाहेतुः, क्षायिकीनां हि लब्धीनां न प्रयुञ्जना भवति, तासामनवरतमेकस्वभावेनैव सर्वकालीनत्वात् , तासां च फलवत्त्वमपि तथैव । तदितराणां तु कादाचित्कत्वेन फलवत्त्वात् प्रयुञ्जनेति विशेषः-इत्येव ह्यस्मन्मतमित्यत्राह-तस्य लब्धिविशेषस्य, उपजीवनाभावे तु शैलेश्यामपि फलं जीवरक्षारूपं नास्ति, तदानीं तत्कायस्पर्शेन मशकादिव्यापत्तेस्त्वयापि स्वीकारात् , किं पुनःसयोगिकेवलिनि वाच्यम् ; तथा चोपजीवनानुपजीवनविकल्पव्याघातात् तादृशलब्धिविशेषकल्पनमप्रामाणिकमेवेति भावः ॥ ७९ ॥
अथ चारित्रमोहनीयकर्मक्षयजनिता जीवरक्षाहेतुर्लब्धिर्योगगतैव कल्प्यत इति शैलेश्यवस्थाथां नोक्तदोष इत्याशङ्कायामाहजोगगया सा लद्वी, अजोगिणो खाइगावि जइ णस्थि ॥ ता तकम्मस्सुदओ, तस्सेव हवे पराहुत्तो ॥८॥
[योगगता सा लब्धिः, अयोगिनः क्षायिक्यपि यदि नास्ति ॥ तदा तत्कर्मण उदयः, तस्यैव भवेत्परावृत्तः॥८॥]
व्याख्या-'जोगगय'त्ति । सा जीवरक्षाहेतुः, लब्धिर्योगगतेति कृत्वा, क्षायिक्यपि यदि अयोगिनोऽयोगिकेवलिनो, |नास्ति, तदा तस्यैवायोगिकेवलिन एव, तत्कर्मणश्चारित्रमोहनीयकर्मण, उदयः परावृत्तो भवेत् , चारित्रमोहक्षयकार्याभावस्य चारित्रमोहोदयव्याप्यत्वादिति भावः ।। किंच-यदि लब्ध्युपजीविजलचारणादिषु परिदृष्टा जीवविराधनाऽभावलब्धिरनुपजीव्या यदि केवलिनि कल्प्यते, तदा तादृशजङ्घाचारणादिषु परिदृष्टातिशयचरणलब्धिरप्यनुपजीव्या केवलिनि कस्मान्न कल्प्यते ?, तस्या उपजीव्यत्वनियमान तत्कल्पनं केवलिनि कत्तुं शक्यत इति चेद्, तदेतदन्यत्रापि तुल्यमिति स्वयमेव विभावय । तस्मानियतयोगव्यापारा