________________
धर्मपरीक्षा ॥२६॥
जपि मयं णारंभो, लद्धिविसेसाउ चेव केवलिणो॥ तं पि इमीइ दिसाए, णिराकयं हाइ णायव्वं ॥७८॥8
सटिप्पणा . [यदपि मतं नारम्भः लब्धिविशेषादेव केवलिनः ॥ तदप्यनया दिशा निराकृतं भवति ज्ञातव्यम् ॥ ७८ ॥]
॥स्वोपन व्याख्या-'जपि मयति । यदपि मतं लब्धिविशेषादेव केवलिनो नारम्भः, प्रसिद्धं खल्वेतद्-यदुत घातिकर्मक्षयो- वृधिः ॥ पशमावाप्तजलचारणादिनानालब्धिमतां साधूनां नदीसमुद्रादिजलज्वलनशिखोपवनवनस्पतिपत्रपुष्पफलादिकमवलम्ब्य यदृच्छया गमना- गाथा-७८ गमनादिपरायणानामपि जलजीवादिविराधना न भवतीति । तदुक्तं 'खीरासवमहुआसव' इत्यादिचतुःशरण३४गाथावृत्ती-"चारणे
॥२६॥ त्यादि यावत्केचित्तु पुष्पफलपत्रहिमवदादिगिरिश्रेणि-अनिशिखानीहारावश्यायमेघवारिधारामर्कटतन्तुज्योतीरश्मिपवनलताद्यालम्बनेन गतिपरिणामकुशलाः, तथा वापीनद्यादिजले तज्जीवानचिराधयन्तो भूमाविव पादोत्क्षेपनिःक्षेपकुशला जलचारणा इत्यादि"। कथं तर्हि घातिकर्मक्षयावाप्तलब्धिभाजः केवलिनो जीवविराधनासम्भवः? एकस्या अपि क्षायिकलब्धेः सर्वक्षायोपशमिकलब्ध्यात्मकत्वेन क्षायोपशमिकलब्धिसाध्यस्य जीवरक्षादिकार्यमात्रस्य साधकत्वात् । सा च क्षायिकी लब्धिभगवतो जीवरक्षाहेतुरनुत्तरचारित्रान्तर्भूता द्रष्टव्या। तत्प्रभावादेव न केवलिनः कदाप्यारम्भ इति । तदपि मतमनया दिशा निराकृतं ज्ञातव्यं भवति, लब्धिखभावादेव जीवरक्षोपपत्तौ केवलिन उल्लङ्घनादिव्यापारवैयापत्तरिति भावः ॥ ७८ ॥ दिग्दर्शितमेव दूषणं विकल्प्य स्फुटीकुर्वन्नाह| तं खलु उवजीवंतो, पमायवं तुह मए जिणो हुज्जा ॥ सेलेसीए वि फलं, ण तस्स उवजीवणाभावे ॥७९॥
[तं खलूपजीवन् प्रमादवांस्तव मते जिनो भवेत् ॥ शैलेश्यामपि फलं न तस्योपजीवनाभावे ॥ ७९ ॥]