________________
धर्मपरीक्षा ॥२५९॥
SADA
प्रतिषिध्यते; नस्लभयदस्य भगवतःप्राणिनां साक्षात्रासजनकव्यापाररूपं भयदानं सम्भवतिः परेषां भापनस्य भयमोहनीयाश्रवत्वात् ,
सटिप्पणा केवलिक्रियातः प्रतिलेखनादिव्यापारकाले यां प्राणिनामपसरणादिक्रिया भवति सा न भयमलेति खत एवेत्युच्यत इति चेत् । न, भयं
॥खोपड़ विनैव केवलियोगात् सत्त्वापसरणकल्पने हिंसां विना तन्मरणकल्पनेऽपि वाधकाभावाद्, अदृष्टकल्पनाया उभयत्र तुल्यत्वाद् । आव- वृतिः ॥ | श्यकक्रियावश्यम्भाविना च प्राणिभयेन च यदि भयमोहनीयाश्रवभूतं भापनमुच्यते, तदा तव मतेऽपि सूक्ष्मसम्परायोपशान्तमोहयो- गाथा-७७ द्रव्यहिंसाऽभ्युपगमेन भापनावश्यम्भावाद् भयमोहनीयकर्मबन्धसम्भवे षड्विधबन्धकत्वमेकविधवन्धकत्वं च भज्येत । न च जानतो ॥२५९॥ भयप्रयोजकव्यापाररूपमेव भापनं भयमोहनीयाश्रव इति नायं दोष इति वाच्यम् , जानतोऽपि भगवतो योगात् त्रिपृष्टवासुदेवभववि-18 | दारितसिंहजीवस्य पलायननिमित्तकभयश्रवणात् । यत्तु तस्य भयहेतवो न श्रीमहावीरयोगाः, किंतु तदीययोगा एव, यथाऽयोगि- केवलिशरीरान्मशकादीनां व्यापत्तौ मशकादीनां योगा एव कारणमिति कल्पनं तत्तु स्फुटातिप्रसङ्गग्रस्तं, शक्यं ह्येवं वक्तुं, साधुयोगादपि न केषामपि भयमुत्पद्यते, किन्तु वयोगादेवेति । अथ भगवत्यभयदत्वं प्रसिद्धम् , नदुक्तं शक्रस्तवे 'अभयदयाणं'ति । एतवृत्त्येकदेशो यथा “प्राणान्तिकोपसर्गकारिष्वपि न भयं दयन्ते, यद्वाऽभया सर्वप्राणिभयत्यागवती दया कृपा येषां तेऽभयदयास्तेभ्य इति"। | तन्निर्वाहार्थ केवलियोगादन्येषां न भयोत्पत्तिरिति कल्प्यते, साधुषु च तथाकल्पने न प्रयोजनमस्तीति चेद्, न । अस्मिन्नप्यर्थे सम्यगव्युत्पन्नोऽसि?, किं न जानासि ? संयमस्यैवाभयत्वं येन संयमिनां संयमप्रामाण्यादेवान्यभयाजनकयोगत्वं न कल्पयसि। न जानामीति चेत् , तर्हि "तं नो करिस्सामि समुट्ठाए मंता मइमं अभयं विदित्ता" इत्याचाराङ्गसूत्र एवाभयपदार्थ पर्यालोचय येनाज्ञाननिवृत्तिः स्याद् , “अविद्यमानं भयमस्मिन् सचानामित्यभयः संयमः" इति धुक्तं वृत्ताविति ॥७७॥ परमतस्यैवोपपादकान्तरं निराकरोति
N GARCAD