________________
एवं चापसरणादिद्वारं विना स्वरूपत एव केवलियोगानां जीवरक्षाहेतुत्वे उल्लङ्घनादिव्यापारवैफल्यापत्ती व्यवस्थापितायां केवलिधर्मपरीक्षा
सटिप्पणा 18| योगव्यापारकाले जीवानां स्वत एवापसरणस्वभावत्वं यत्परेण कल्पितं तदपि निरस्तमित्याह॥२५८॥
| ॥स्वोपज्ञ एएण मच्छियाई, सहावकिरिआपरायणा हं ण ह जिकिरियापेरिअ-किरियं तित्ति पडिसिद्धं ॥७७॥
[एतेन मक्षिकादयः स्वभावक्रियापरायणा भवन्ति ॥ न खलु जिनक्रियाप्रेरितक्रियां यान्तीति प्रतिषिद्धम् ॥ ७७॥] गाथा-७७ व्याख्या-'एएण मच्छि आईत्ति एतेनोक्तहेतुना, मक्षिकादयो मक्षिकापिपीलिकादंशमशकादयः, खभावक्रियापरायणाः ॥२५८॥ सहजसमुत्थगमनादिक्रियाकारिणो, भवन्ति, 'ण' नैव, जिनस्य या क्रिया गमनागमनादिरूपा, तया प्रेरिता-तन्निमित्तका या क्रिया तां, यान्ति-केवलियोगहेतुकस्वशरीरसङ्कोचमपि न कुर्वन्तीत्यर्थः । केवलिनो हि गमनागमनादिपरिणतो पिपीलिकादयः क्षुद्रजन्तवः स्वत एवेतस्ततोऽपसरन्ति, अपमृता वा भवन्ति । यदि च कदाचिदसातवेदनीयकर्मोदयेन दंशमशकादयो नापसरन्ति, तदा | केवली तत्कर्मक्षयनिमित्तं तत्कृतवेदनां सम्यगधिसहते, केवलज्ञानोत्पत्तिसमय एव तेनैव प्रकारेणात्मीयासातवेदनीयकर्मक्षयस्य दृष्टत्वात् । ८
नतु केवलियोगजनितां किमपि क्रियां कुर्वन्ति ॥ तदिदमाह-"तेणं मच्छिअपमुहा, सहावकिरियापरायणा हुंति ॥ण य जिणकिरियापेरिअ-किरियालेसंपि कुवंति" ॥१॥ (तेन मक्षिकाप्रमुखाः स्वभाव क्रियापरायणा भवन्ति । न च जिनक्रियाप्रेरितक्रियालेशमपि कुर्वन्ति)॥ इति एतत्, प्रतिषिद्धं, स्वत एव जीवानामपसरणस्वभावत्वे केवलिन उल्लङ्घनादिव्यापारवैफल्यापत्तेर्वज्रलेपत्वाद् । यच्च केवलियोगव्यापारमपेक्ष्य जीवानां खतोऽपसरणखभावत्वकल्पनं तदपां दहनान्तिके दाहजननखभावकल्पनसदृशमेव । अथ केवलिनः प्रतिलेखनादिव्यापाराजीवानामपसरणस्य प्रमाणसिद्धत्वात् केवलिक्रियानिमित्तकं क्रियामात्रं न तेषां प्रतिषिध्यते, किन्तु भयपूर्विका क्रिया
BACEBOOK