SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२५७॥ वा स्वीक्रियताम्, तद्योगाक्रान्तानामपि वा जीवानामघातपरिणाम एव (मोवा) स्वीक्रियतां नतु तृतीया गतिरस्ति । तत्र च प्रथमः पक्षोऽस्मन्मत प्रवेश भयादेव त्वयानाभ्युपगन्तव्य इति द्वितीयः पक्षस्तवाभ्युपगन्तुमवशिष्यते ॥ ७५ ॥ तत्राह - एवं सव्वजिआणं, जोगाओ च्चिय अघायपरिणामे ॥ केवलिणो उल्लंघण - पल्लंघाईण वेफलं ॥ ७६ ॥ [ एवं सर्वजीवानां योगादे वाघातपरिणामे । केवलिन उल्लङ्घनप्रलङ्घनादीनां वैफल्यम् ।। ७६ ।। ] व्याख्या – 'एवं 'ति । एवं जलादिस्पर्शाभावाभ्युपगमस्य विरोधग्रस्तत्वे, सर्वजीवानां केवलिनो योगादेव घातपरिणामे स्वीक्रियमाणे, उल्लङ्घनप्रलङ्घनादीनां व्यापाराणां, वैफल्यं प्रसज्यते । स्वावच्छिन्नप्रदेशवर्त्तिजीवेषु केव लियोगक्रियाजनितात् केव - लियोगजन्यजीवघातप्रतिबन्धकपरिणामादेव जीवघाताभावोपपत्तौ हि जीवाकुलां भूमिं वीक्ष्य केवलिन उल्लङ्घनादिकमकर्त्तव्यमेव स्यात्, प्रत्युत तेषु स्वयोगव्यापार एव कर्त्तव्यः स्यात्, तस्य जीवरक्षाहेतुत्वादिति महदसमञ्जसमापद्यते । यदि चोल्लङ्घनादिव्यापारः शास्त्रसिद्धः केवलिनोऽप्यभ्युपगन्तव्यस्तदा केवलियोगानां न स्वरूपतो रक्षाहेतुत्वं किन्तु नियतव्यापारद्वारेति तदविषयावश्यम्भाविजीवविराधना दुर्निवारा । यदि च केवलियोगानां स्वरूपत एव जीवरक्षाहेतुत्वम्, उल्लङ्घनादिव्यापारश्च न तस्य जीवरक्षामात्रप्रयोजनः, किन्तु स्वव्यवहारानुपातिश्रुतव्यवहारपरिपालनमात्रप्रयोजन इति विभाव्यते, तदा तादृशादपि ततो जीवानामपसरणं भवति नवेति वक्तव्यम् ? । आधे सासरणक्रिया भयपूर्विकेति 'केवलियोगात्पृथिव्यादिजीवा भयलेशमपि न प्राप्नुवन्ति' इति स्वप्रतिज्ञाव्याघातः । अन्त्ये चादृष्टपरिकल्पना, नयुल्लङ्घनादिक्रिययोल्लङ्घन्यमानादिजीवानामनपसरणं क्वापि दृष्टमिति । किंच - एवमादिपदग्राद्यप्रतिलेखनावैफल्यं दुरुद्धरमेव, जीवसंसक्तवस्त्रादेर्विविक्तीकरणेनैव तत्साफल्य सम्भवाद् । न च तत्केवलियोगाजीवानामनपसरणस्वभावकल्पने निर्वहतीति ॥७६॥ सटिप्पणा ॥ खोपड वृतिः ॥ गाथा- ७६ ॥ २५७॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy