SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२५६॥ ASSASS-15 सटिप्पणा ॥स्वोपक्ष वृतिः ॥ गाथा-७५ ॥२५६॥ जीवा उत्पत्तिप्रमुखभाजो भवन्ति ।। यथा केवलियोगाद् भयादिलेशमपि न लभन्ते ।) इति चेत् , हन्तैवं सचित्तास्पर्श एव भगवतोऽतिशयः प्राप्तः, तत्राह-सचित्तस्यास्पर्शो न पुनर्जिनातिशयः सिद्धः, भक्तिभरनम्रमनुष्यादिस्पर्शस्य भगवति सार्वजनीनत्वाद् । अथ न सचित्तस्पर्शाभावमात्रं भगवतोऽतिशयः, किन्तु यादृशसचित्तस्पर्शः साधूनां निषिद्धस्तादृशस्पर्शाभाव एवेति सचित्तजलादिस्पर्शाभावो भगवतोऽतिशयसिद्ध इति नानुपपत्तिरिति ॥ ७४ ॥ तत्राहसोऽइसओ कायकओ, जोगकओ वा हविज केवलिणो॥दुहओ वण्णियपुत्ता-इणायओ पायडविरोहो ॥७५॥ [सोऽतिशयः कायकृतो योगकृतो वा भवेत्केवलिनः ।। उभयतोऽप्यन्निकापुत्रादिज्ञाततः प्रकटविरोधः ॥ ७५ ॥] व्याख्या:-'सोडसओ'त्ति। म जलादिस्पर्शाभावलक्षणोऽतिशयः, काय कृत:-कायनिष्ठफलविपाकप्रदर्शको, योगकृतोवायोगनिष्ठफलविपाकप्रदर्शको वा, केवलिनो भवेद । उभयतोऽप्यन्निकापुत्रादिज्ञाततः प्रकट विरोध एव । नयन्निकापुत्रगजसुकुमारादीनामन्तकृत्केवलिनां सयोगिनामयोगिनां वा सचित्तजलतेजस्कायिकजीवादिस्पर्शस्त्वयापि नाभ्युपगम्यते; केवलं योगवतामयोगवतां वा तेषामन्तकृत्केवलिनां कायस्पर्शात्तजीवविराधनाविशेषेण 'घुणाऽक्षरन्यायेन' स्वयमेव भवता स्वग्रन्थे क्वापि लिखिताः | स्वाभ्युपगमरीत्या तु त्रयोदशगुणस्थानमुल्लध्य चतुर्दशगुणस्थाने वक्तुमुचितेति विशेषः । परतन्त्रस्यैवायं जलादिस्पर्शः केवलिनो नतु स्वतन्त्रस्येति चद् । नेयं भाषा भवतस्त्राणाय “खीणम्मि अंतराए, णो से य असक्कपरिहारो॥त्ति॥" वामात्रेणाशक्यपरिहाराभावमावेदयत आयुष्मतः केवलिनः परतन्त्रतयामि जलादिस्पर्शतजीवविराधनयोरभ्युपगातुमनुचितत्वाद् , अन्यथा केवली यत्र स्थितस्तत्रागन्तुकवायोरपि सचित्तताया अनिषेधप्रसङ्गात्(ङ्गः), तस्मात् सचित्तजलादिस्पर्शन केवलिनः सयोगस्याप्यवश्यम्भाविनी जीवविराधना
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy