Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 277
________________ A 567 धर्मपरीक्षा ॥२६५।। SCHOCACHCCCCCCESCORESCR अत्रेयं परस्य प्रक्रिया-छद्रस्थसंयतः परीक्षावसरे प्रमत्त एव पक्षीकर्तव्यः, तत्रैव चक्षुःसूक्ष्मनिपातमपि सूत्रोक्तयतनया कुर्वाणे 'किमयं छद्मस्थ उत केवली' इति संशये सति छद्मस्थतासाधनाय लिङ्गापेक्षोपपत्तः, उक्तस्वरूपरहितस्य तु निद्राविकथादिप्र सटिप्पणा मादवतश्छद्मस्थत्वेन संशयाभावान्न परीक्षायां प्रवेश इति न तस्य पक्षत्वम् , आह च-"छउमत्थो पुण केवलि-कप्पो अपमत्तसंजओ ॥ खोपक्ष | वृति णेओ॥ गो विअ संजमजोगे, उवउत्तो सुत्ताणाए ॥१॥"त्ति । (छद्मस्थः पुनः केवलिकल्पः अप्रमत्तसंयतो ज्ञेयः। सोपि च संयमयोगे, गाथा-८३ | उपयुक्तः सूत्राज्ञया ॥) लिंगानि च तत्र पञ्चमहाव्रतातिक्रमापवादानाभोगविषयसप्तस्थानप्रतिपादितानि द्रव्यप्राणातिपातादिरूपाण्येव है। ॥२६५॥ ग्राह्याणि, नतु भावप्राणातिपातादिरूपाण्यपि, तेषां छद्मस्थज्ञानागोचरत्वेन लिङ्गत्वाभावाद् । लिङ्ग हि छद्मस्थज्ञानहेतवे प्रयुज्यते, तच्च | ज्ञातमेव ज्ञापकं नाज्ञातमपीति, तानि च मोहनीयाविनाभावीनि यावदुपशान्तवीतरागं भवन्ति, न परतोऽपि; तत ऊर्ध्व मोहनीयसत्ताया अप्यभावाद् । आह च-"छउमत्थनाणहेऊ, लिंगाई दव्वओ ण भावाओ॥ उवसंतवीयराय, जा तावं ताणि जाणाहिं ॥२॥" ति । (छद्मस्थज्ञानहेतवो लिङ्गानि द्रव्यतो न भावतः॥ उपशान्तवीतराग यावत्तावत्तानि जानीहि ॥) नन्वपूर्वादिषु पञ्चसु गुणस्थानकेषु चतस्रोऽपि भाषा भवन्तीति कर्मग्रन्धे भणितम् , तथा च सिद्धं क्षीणमोहस्यापि मृषा भाषणम् , तच्च छद्मस्थत्वावबोधकं लिङ्गमेव, तत्क| थमुच्यते छद्मस्थत्वज्ञापकलिङ्गानि यावदुपशान्तवीतरागमेव भवन्ति ? इति चेद् । मैवम् , छद्मस्थज्ञानगोचरस्यैव मृषाभाषणस्य लिङ्गत्वेनाभिमतत्वात् । तच्च द्रव्यतो मृषाभाषणं क्षीणमोहस्य न भवति, क्रोधादिजन्यत्वाद् । यदागमः-" सव्वं भंते ! मुसावायं पच्चक्खामि । से कोहा वा, लोहा वा, भया बा, हासा वा इत्यादि।क्षीणमोहस्य च क्रोधादयो न भवन्तीति कारणाभावाद् द्रव्यतो मृषाभाषणस्याभावः, तथा च भावतो मृषाभाषणस्य सुतरामभावः, तस्य मोहनीयोदयजन्यत्वात् । तथा च क्षीणमोहमात्रस्य द्रव्यतो भावतो NCHORRHORRIORSHAN

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304