Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
| सटिप्पणा ॥स्वोपड़
चिः ॥ गाथा-७० ॥२५२॥
यत्वाद् । न द्वितीयः, तादृशस्य जीवघातस्य सयोगिकेवलिनो दोपत्वेऽयोगिकेवलिनोऽपि तद्दोषत्वाप्रच्यवादिति बहुतरमृहनीयम् ।।६९॥ धर्मपरीक्षा
अथ केवलिनो योगा एव रक्षाहेतव इति पराभ्युपगमप्रकारं विकल्प्य दूषयन्नाह॥२५२॥ सा तस्स सरूवेणं, वा वावारेण आइमे पक्खे ॥ पडिलेहणाइहाणी, बितिए अ असक्कपरिहारो॥ ७० ॥
[सा तस्य स्वरूपेण वा व्यापारेण आदिमे पक्षे ॥ प्रतिलेखनादिहानिः, द्वितीये चाशक्यपरिहारः॥ ७० ॥] व्याख्या-'सा तस्स'त्ति । सा जीवरक्षा, तस्य केवलिनः शुभयोगस्य, स्वरूपेण सत्तामात्रेण, वा अथवा, व्यापारेणजीवरक्षार्थ स्वस्य रक्षणीयजीवस्य वाऽन्यदेशनयनाभिमुखपरिणामेन । आदिमे प्रथमे, पक्षे प्रति लेखनादिहानिः। प्रतिलेखना हि ट्र केवलिनः प्राणैः संसक्तस्यैव वस्त्रादेः प्रवचने प्रसिद्धा ॥ तदुक्तमोघनियुक्तो-"पाणेहि उ संसत्ता, पडिलेहा होइ केवलीणं तु ॥ संसत्त
मसंसत्ता, छउमस्थाणं पडिलेहा" ॥२५७॥ (प्राणैः संसक्तानां प्रतिलेखा भवति केवलिनां तु । संसक्तासंसक्तानां छद्मस्थानां तु प्रतिलेखा।) सा च स्वरूपेणैव योगानां जीवरक्षाहेतुत्वेऽनुपपन्ना स्यात् , तद्व्यापारं विनापि जीवरक्षोपपत्तौ तद्विविक्तीकरणप्रयासस्य पलिमन्थत्वाद्, न च पलिमन्थः केवलिनोऽपि युज्यते, अत एव प्रत्युपेक्षितमपि वस्त्राद्यवश्यम्भाविजीवसंसर्ग जानन् केवली पलिमन्थादेव नाऽनागतमेव प्रत्युपेक्षते, किन्तूपभोगकाल एव प्रत्युपेक्षते इति व्यवस्थितम् ॥ तदुक्तम्-"संसञ्जइ धुवमेअं, अपेहि तेण पुव पडिलेहे ॥ पडिलेहिअंपि संस-जइत्ति संसत्तमेव जिणा ॥२५८॥" त्ति । एतद्वयाख्या यथा-संसज्यते प्राणिभिः संसर्गमुपयाति, ध्रुवमवश्यम् , एतद्वस्त्रादि, अप्रत्युपेक्षित सत् , तेन पूर्वमेव केवलिनः प्रत्युपेक्षणां कुर्वन्ति । यदि पुनरपि (यदा तु पुनरेवं) संविद्रते-इदमिदानी वस्त्रादि, प्रत्युपेक्षितमप्युपभोगकाले संसज्यते, तदा 'संसत्तमेव जिण'त्ति संसक्तमेव जिनाः केवलिनः प्रत्युपेक्षन्ते,

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304