Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 270
________________ एवं चापसरणादिद्वारं विना स्वरूपत एव केवलियोगानां जीवरक्षाहेतुत्वे उल्लङ्घनादिव्यापारवैफल्यापत्ती व्यवस्थापितायां केवलिधर्मपरीक्षा सटिप्पणा 18| योगव्यापारकाले जीवानां स्वत एवापसरणस्वभावत्वं यत्परेण कल्पितं तदपि निरस्तमित्याह॥२५८॥ | ॥स्वोपज्ञ एएण मच्छियाई, सहावकिरिआपरायणा हं ण ह जिकिरियापेरिअ-किरियं तित्ति पडिसिद्धं ॥७७॥ [एतेन मक्षिकादयः स्वभावक्रियापरायणा भवन्ति ॥ न खलु जिनक्रियाप्रेरितक्रियां यान्तीति प्रतिषिद्धम् ॥ ७७॥] गाथा-७७ व्याख्या-'एएण मच्छि आईत्ति एतेनोक्तहेतुना, मक्षिकादयो मक्षिकापिपीलिकादंशमशकादयः, खभावक्रियापरायणाः ॥२५८॥ सहजसमुत्थगमनादिक्रियाकारिणो, भवन्ति, 'ण' नैव, जिनस्य या क्रिया गमनागमनादिरूपा, तया प्रेरिता-तन्निमित्तका या क्रिया तां, यान्ति-केवलियोगहेतुकस्वशरीरसङ्कोचमपि न कुर्वन्तीत्यर्थः । केवलिनो हि गमनागमनादिपरिणतो पिपीलिकादयः क्षुद्रजन्तवः स्वत एवेतस्ततोऽपसरन्ति, अपमृता वा भवन्ति । यदि च कदाचिदसातवेदनीयकर्मोदयेन दंशमशकादयो नापसरन्ति, तदा | केवली तत्कर्मक्षयनिमित्तं तत्कृतवेदनां सम्यगधिसहते, केवलज्ञानोत्पत्तिसमय एव तेनैव प्रकारेणात्मीयासातवेदनीयकर्मक्षयस्य दृष्टत्वात् । ८ नतु केवलियोगजनितां किमपि क्रियां कुर्वन्ति ॥ तदिदमाह-"तेणं मच्छिअपमुहा, सहावकिरियापरायणा हुंति ॥ण य जिणकिरियापेरिअ-किरियालेसंपि कुवंति" ॥१॥ (तेन मक्षिकाप्रमुखाः स्वभाव क्रियापरायणा भवन्ति । न च जिनक्रियाप्रेरितक्रियालेशमपि कुर्वन्ति)॥ इति एतत्, प्रतिषिद्धं, स्वत एव जीवानामपसरणस्वभावत्वे केवलिन उल्लङ्घनादिव्यापारवैफल्यापत्तेर्वज्रलेपत्वाद् । यच्च केवलियोगव्यापारमपेक्ष्य जीवानां खतोऽपसरणखभावत्वकल्पनं तदपां दहनान्तिके दाहजननखभावकल्पनसदृशमेव । अथ केवलिनः प्रतिलेखनादिव्यापाराजीवानामपसरणस्य प्रमाणसिद्धत्वात् केवलिक्रियानिमित्तकं क्रियामात्रं न तेषां प्रतिषिध्यते, किन्तु भयपूर्विका क्रिया BACEBOOK

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304