Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 268
________________ धर्मपरीक्षा ॥२५६॥ ASSASS-15 सटिप्पणा ॥स्वोपक्ष वृतिः ॥ गाथा-७५ ॥२५६॥ जीवा उत्पत्तिप्रमुखभाजो भवन्ति ।। यथा केवलियोगाद् भयादिलेशमपि न लभन्ते ।) इति चेत् , हन्तैवं सचित्तास्पर्श एव भगवतोऽतिशयः प्राप्तः, तत्राह-सचित्तस्यास्पर्शो न पुनर्जिनातिशयः सिद्धः, भक्तिभरनम्रमनुष्यादिस्पर्शस्य भगवति सार्वजनीनत्वाद् । अथ न सचित्तस्पर्शाभावमात्रं भगवतोऽतिशयः, किन्तु यादृशसचित्तस्पर्शः साधूनां निषिद्धस्तादृशस्पर्शाभाव एवेति सचित्तजलादिस्पर्शाभावो भगवतोऽतिशयसिद्ध इति नानुपपत्तिरिति ॥ ७४ ॥ तत्राहसोऽइसओ कायकओ, जोगकओ वा हविज केवलिणो॥दुहओ वण्णियपुत्ता-इणायओ पायडविरोहो ॥७५॥ [सोऽतिशयः कायकृतो योगकृतो वा भवेत्केवलिनः ।। उभयतोऽप्यन्निकापुत्रादिज्ञाततः प्रकटविरोधः ॥ ७५ ॥] व्याख्या:-'सोडसओ'त्ति। म जलादिस्पर्शाभावलक्षणोऽतिशयः, काय कृत:-कायनिष्ठफलविपाकप्रदर्शको, योगकृतोवायोगनिष्ठफलविपाकप्रदर्शको वा, केवलिनो भवेद । उभयतोऽप्यन्निकापुत्रादिज्ञाततः प्रकट विरोध एव । नयन्निकापुत्रगजसुकुमारादीनामन्तकृत्केवलिनां सयोगिनामयोगिनां वा सचित्तजलतेजस्कायिकजीवादिस्पर्शस्त्वयापि नाभ्युपगम्यते; केवलं योगवतामयोगवतां वा तेषामन्तकृत्केवलिनां कायस्पर्शात्तजीवविराधनाविशेषेण 'घुणाऽक्षरन्यायेन' स्वयमेव भवता स्वग्रन्थे क्वापि लिखिताः | स्वाभ्युपगमरीत्या तु त्रयोदशगुणस्थानमुल्लध्य चतुर्दशगुणस्थाने वक्तुमुचितेति विशेषः । परतन्त्रस्यैवायं जलादिस्पर्शः केवलिनो नतु स्वतन्त्रस्येति चद् । नेयं भाषा भवतस्त्राणाय “खीणम्मि अंतराए, णो से य असक्कपरिहारो॥त्ति॥" वामात्रेणाशक्यपरिहाराभावमावेदयत आयुष्मतः केवलिनः परतन्त्रतयामि जलादिस्पर्शतजीवविराधनयोरभ्युपगातुमनुचितत्वाद् , अन्यथा केवली यत्र स्थितस्तत्रागन्तुकवायोरपि सचित्तताया अनिषेधप्रसङ्गात्(ङ्गः), तस्मात् सचित्तजलादिस्पर्शन केवलिनः सयोगस्याप्यवश्यम्भाविनी जीवविराधना

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304