Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मपरीक्षा
॥२५७॥
वा स्वीक्रियताम्, तद्योगाक्रान्तानामपि वा जीवानामघातपरिणाम एव (मोवा) स्वीक्रियतां नतु तृतीया गतिरस्ति । तत्र च प्रथमः पक्षोऽस्मन्मत प्रवेश भयादेव त्वयानाभ्युपगन्तव्य इति द्वितीयः पक्षस्तवाभ्युपगन्तुमवशिष्यते ॥ ७५ ॥ तत्राह - एवं सव्वजिआणं, जोगाओ च्चिय अघायपरिणामे ॥ केवलिणो उल्लंघण - पल्लंघाईण वेफलं ॥ ७६ ॥ [ एवं सर्वजीवानां योगादे वाघातपरिणामे । केवलिन उल्लङ्घनप्रलङ्घनादीनां वैफल्यम् ।। ७६ ।। ]
व्याख्या – 'एवं 'ति । एवं जलादिस्पर्शाभावाभ्युपगमस्य विरोधग्रस्तत्वे, सर्वजीवानां केवलिनो योगादेव घातपरिणामे स्वीक्रियमाणे, उल्लङ्घनप्रलङ्घनादीनां व्यापाराणां, वैफल्यं प्रसज्यते । स्वावच्छिन्नप्रदेशवर्त्तिजीवेषु केव लियोगक्रियाजनितात् केव - लियोगजन्यजीवघातप्रतिबन्धकपरिणामादेव जीवघाताभावोपपत्तौ हि जीवाकुलां भूमिं वीक्ष्य केवलिन उल्लङ्घनादिकमकर्त्तव्यमेव स्यात्, प्रत्युत तेषु स्वयोगव्यापार एव कर्त्तव्यः स्यात्, तस्य जीवरक्षाहेतुत्वादिति महदसमञ्जसमापद्यते । यदि चोल्लङ्घनादिव्यापारः शास्त्रसिद्धः केवलिनोऽप्यभ्युपगन्तव्यस्तदा केवलियोगानां न स्वरूपतो रक्षाहेतुत्वं किन्तु नियतव्यापारद्वारेति तदविषयावश्यम्भाविजीवविराधना दुर्निवारा । यदि च केवलियोगानां स्वरूपत एव जीवरक्षाहेतुत्वम्, उल्लङ्घनादिव्यापारश्च न तस्य जीवरक्षामात्रप्रयोजनः, किन्तु स्वव्यवहारानुपातिश्रुतव्यवहारपरिपालनमात्रप्रयोजन इति विभाव्यते, तदा तादृशादपि ततो जीवानामपसरणं भवति नवेति वक्तव्यम् ? । आधे सासरणक्रिया भयपूर्विकेति 'केवलियोगात्पृथिव्यादिजीवा भयलेशमपि न प्राप्नुवन्ति' इति स्वप्रतिज्ञाव्याघातः । अन्त्ये चादृष्टपरिकल्पना, नयुल्लङ्घनादिक्रिययोल्लङ्घन्यमानादिजीवानामनपसरणं क्वापि दृष्टमिति । किंच - एवमादिपदग्राद्यप्रतिलेखनावैफल्यं दुरुद्धरमेव, जीवसंसक्तवस्त्रादेर्विविक्तीकरणेनैव तत्साफल्य सम्भवाद् । न च तत्केवलियोगाजीवानामनपसरणस्वभावकल्पने निर्वहतीति ॥७६॥
सटिप्पणा ॥ खोपड
वृतिः ॥ गाथा- ७६ ॥ २५७॥

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304