Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मपरीक्षा ॥२५९॥
SADA
प्रतिषिध्यते; नस्लभयदस्य भगवतःप्राणिनां साक्षात्रासजनकव्यापाररूपं भयदानं सम्भवतिः परेषां भापनस्य भयमोहनीयाश्रवत्वात् ,
सटिप्पणा केवलिक्रियातः प्रतिलेखनादिव्यापारकाले यां प्राणिनामपसरणादिक्रिया भवति सा न भयमलेति खत एवेत्युच्यत इति चेत् । न, भयं
॥खोपड़ विनैव केवलियोगात् सत्त्वापसरणकल्पने हिंसां विना तन्मरणकल्पनेऽपि वाधकाभावाद्, अदृष्टकल्पनाया उभयत्र तुल्यत्वाद् । आव- वृतिः ॥ | श्यकक्रियावश्यम्भाविना च प्राणिभयेन च यदि भयमोहनीयाश्रवभूतं भापनमुच्यते, तदा तव मतेऽपि सूक्ष्मसम्परायोपशान्तमोहयो- गाथा-७७ द्रव्यहिंसाऽभ्युपगमेन भापनावश्यम्भावाद् भयमोहनीयकर्मबन्धसम्भवे षड्विधबन्धकत्वमेकविधवन्धकत्वं च भज्येत । न च जानतो ॥२५९॥ भयप्रयोजकव्यापाररूपमेव भापनं भयमोहनीयाश्रव इति नायं दोष इति वाच्यम् , जानतोऽपि भगवतो योगात् त्रिपृष्टवासुदेवभववि-18 | दारितसिंहजीवस्य पलायननिमित्तकभयश्रवणात् । यत्तु तस्य भयहेतवो न श्रीमहावीरयोगाः, किंतु तदीययोगा एव, यथाऽयोगि- केवलिशरीरान्मशकादीनां व्यापत्तौ मशकादीनां योगा एव कारणमिति कल्पनं तत्तु स्फुटातिप्रसङ्गग्रस्तं, शक्यं ह्येवं वक्तुं, साधुयोगादपि न केषामपि भयमुत्पद्यते, किन्तु वयोगादेवेति । अथ भगवत्यभयदत्वं प्रसिद्धम् , नदुक्तं शक्रस्तवे 'अभयदयाणं'ति । एतवृत्त्येकदेशो यथा “प्राणान्तिकोपसर्गकारिष्वपि न भयं दयन्ते, यद्वाऽभया सर्वप्राणिभयत्यागवती दया कृपा येषां तेऽभयदयास्तेभ्य इति"। | तन्निर्वाहार्थ केवलियोगादन्येषां न भयोत्पत्तिरिति कल्प्यते, साधुषु च तथाकल्पने न प्रयोजनमस्तीति चेद्, न । अस्मिन्नप्यर्थे सम्यगव्युत्पन्नोऽसि?, किं न जानासि ? संयमस्यैवाभयत्वं येन संयमिनां संयमप्रामाण्यादेवान्यभयाजनकयोगत्वं न कल्पयसि। न जानामीति चेत् , तर्हि "तं नो करिस्सामि समुट्ठाए मंता मइमं अभयं विदित्ता" इत्याचाराङ्गसूत्र एवाभयपदार्थ पर्यालोचय येनाज्ञाननिवृत्तिः स्याद् , “अविद्यमानं भयमस्मिन् सचानामित्यभयः संयमः" इति धुक्तं वृत्ताविति ॥७७॥ परमतस्यैवोपपादकान्तरं निराकरोति
N GARCAD

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304