Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 266
________________ धर्मपरीक्षा ॥२५४॥ व्याख्या- ''ति । नन्विति पूर्वपक्षे, यथा पुष्पचूलायाः साध्व्या अवाप्तकेवलज्ञानाया अपि मेघे वर्षत्यपि अतथाविधजलपरिणतिविशेषाद्, अचित्तप्रदेशे खे, गमनं सम्पन्नम्, तथा विहारेऽपि जलादिजीवानां जिनयोगादघातपरिणामोऽस्तु, नवमस्माकं काप्यनुपपत्तिरस्ति, केवलिमात्र जीवमात्रयोर्घात्यघातकसम्बन्धाभावें केवलिनोऽघातकस्वभावेन जीवानां चाघात्यस्वभावेन तथैव केवलिनो विहारादिनिर्वाहो भवति, यथा न पृथिव्यादिजीवानां स्वयोगेन भयादिलेशोऽपि सम्पद्यत इति । अत्र समाधानमाहभइ सव्वं एवं भणियं णु तए परोप्परविरुद्धं ॥ दितियदिहंता, जमेगरूवा ण संपन्ना ॥ ७३ ॥ [भण्यते सर्वमेतद् भणितं नु त्वया परस्परविरुद्धम् || दार्शन्तिकदृष्टान्तौ यदेकरूपौ न सम्पन्नौ ॥ ७३ ॥] व्याख्या- 'भाइ'त्ति । भण्यते-अत्रोत्तरं दीयते, सर्वमेतत्, 'नु' इति वितर्के, त्वया परस्परविरुद्धं भणितम्, यद् यस्माद्, दाष्टनिकदृष्टान्तौ नैकरूपौ सम्पन्नौ ।। ७३ ।। तथाहि एगत्थ जलमचित्तं, अण्णत्थ सचित्तयंति महभेओ | अफुसिअगमणं तीए, ण सुअं अण्णस्स व जिणस्स ॥७४॥ [ एकत्र जलमचित्तमन्यत्र सचित्तमिति महाभेदः । अस्पृष्टगमनं तस्या न श्रुतमन्यस्य वा जिनस्य ॥ ७४ ॥ ] व्याख्या- 'एगथ'त्ति | एकत्र पुष्पचूलाया वर्षति मेघे गमने, अचित्तं जलं साक्षादेव शास्त्रे प्रोक्तम्, अन्यत्र केवलिनां विहारादौ नत्तारे च जलं, सचित्तमिति महान् तर्योर्दृष्टान्तदाष्टन्तिकयोर्भेदः । नहि केवलिनो विहारादावनियतनद्युत्तारे निरन्तरप्रवाहपतितं तज्जलमचित्तमेवेति क्वाप्युक्तमस्ति । अथैवमप्युक्तं नास्ति 'यदुत तीर्थकृद्व्यतिरिक्तोऽमुकनामा केवली नदीमुत्तीर्णवानिति' सटिप्पणा ॥ स्वोपज्ञ वृचिः ॥ गाथा-७३ ७४ ॥२५४॥

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304