________________
धर्मपरीक्षा
॥२५४॥
व्याख्या- ''ति । नन्विति पूर्वपक्षे, यथा पुष्पचूलायाः साध्व्या अवाप्तकेवलज्ञानाया अपि मेघे वर्षत्यपि अतथाविधजलपरिणतिविशेषाद्, अचित्तप्रदेशे खे, गमनं सम्पन्नम्, तथा विहारेऽपि जलादिजीवानां जिनयोगादघातपरिणामोऽस्तु, नवमस्माकं काप्यनुपपत्तिरस्ति, केवलिमात्र जीवमात्रयोर्घात्यघातकसम्बन्धाभावें केवलिनोऽघातकस्वभावेन जीवानां चाघात्यस्वभावेन तथैव केवलिनो विहारादिनिर्वाहो भवति, यथा न पृथिव्यादिजीवानां स्वयोगेन भयादिलेशोऽपि सम्पद्यत इति । अत्र समाधानमाहभइ सव्वं एवं भणियं णु तए परोप्परविरुद्धं ॥ दितियदिहंता, जमेगरूवा ण संपन्ना ॥ ७३ ॥ [भण्यते सर्वमेतद् भणितं नु त्वया परस्परविरुद्धम् || दार्शन्तिकदृष्टान्तौ यदेकरूपौ न सम्पन्नौ ॥ ७३ ॥] व्याख्या- 'भाइ'त्ति । भण्यते-अत्रोत्तरं दीयते, सर्वमेतत्, 'नु' इति वितर्के, त्वया परस्परविरुद्धं भणितम्, यद् यस्माद्, दाष्टनिकदृष्टान्तौ नैकरूपौ सम्पन्नौ ।। ७३ ।। तथाहि
एगत्थ जलमचित्तं, अण्णत्थ सचित्तयंति महभेओ | अफुसिअगमणं तीए, ण सुअं अण्णस्स व जिणस्स ॥७४॥
[ एकत्र जलमचित्तमन्यत्र सचित्तमिति महाभेदः । अस्पृष्टगमनं तस्या न श्रुतमन्यस्य वा जिनस्य ॥ ७४ ॥ ]
व्याख्या- 'एगथ'त्ति | एकत्र पुष्पचूलाया वर्षति मेघे गमने, अचित्तं जलं साक्षादेव शास्त्रे प्रोक्तम्, अन्यत्र केवलिनां विहारादौ नत्तारे च जलं, सचित्तमिति महान् तर्योर्दृष्टान्तदाष्टन्तिकयोर्भेदः । नहि केवलिनो विहारादावनियतनद्युत्तारे निरन्तरप्रवाहपतितं तज्जलमचित्तमेवेति क्वाप्युक्तमस्ति । अथैवमप्युक्तं नास्ति 'यदुत तीर्थकृद्व्यतिरिक्तोऽमुकनामा केवली नदीमुत्तीर्णवानिति'
सटिप्पणा
॥ स्वोपज्ञ
वृचिः ॥ गाथा-७३ ७४ ॥२५४॥