Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
कान त्वनागतमेव, पलिमन्थदोषादिति ॥" 'पडिलेहणाइहाणी' इत्यत्रादिना जीवरक्षाहेतूल्लङ्घनप्रलङ्घनादिव्यापारस्यापि केवलिनो धर्मपरीक्षा | वैयर्थ्य बोध्यम, नियतव्यापारेणैव केवलियोगाजीवरक्षेति ॥ द्वितीये च पक्षेऽङ्गीक्रियमाणेऽशक्यपरिहारोऽप्यवश्यमभ्युपगन्तव्य इति
सटिप्पणा
|| खोपड़ ॥२५३॥ गम्यम् , सर्वत्र जीवरक्षाव्यापारस्य स्खकायस्य जीवानां वा विविक्तीकरणपर्यवसितस्य दुष्करत्वात् ॥ ७० ॥ तथाहि
वृत्तिः ॥ ण ह सक्का काउंजे, इह बायरवाउकायउद्धरणं ॥ केवलिणावि विहारे, जलाइजीवाण य तयंति ॥७१ गाथा-७२
हा ७२ [नैव शक्यं कर्तुमिह बादरवायुकायिकोद्धरणम् ।। केवलिनाऽपि विहारे जलादिजीवानां च तदिति ॥ ७१॥]
| ॥२५३॥ ___व्याख्या-'णहु सक्क'त्ति । 'ण हुनैव शक्यम् , दीर्घत्वं प्राकृतत्वात् , क 'जे'इति पादपूरणार्थों निपातः । इह जीव-18 घने लोके, बादरवायुकायिकानां जीवानां खत एवोपनिपत्य केवलिनः कायमुपस्पृशतामुद्धरणं-विविक्तदेशसंक्रमणम् , केवलिनापि, च पुन:, विहारे जलादिजीवानां तद्-उद्धरणम् , इतिः वाक्यार्थपरिसमाप्तौ । अयं भावः-केवलियोगव्यापारस्य जीवरक्षाहेतुत्वे यत्र स्वाभावप्रयुक्तं तद्वैकल्यं तत्र तत्सार्थक्यमस्तु, यत्र तु जीवनिरन्तरतयैव जीवविविक्तीकरणमशक्यं, तत्रावश्यम्भाविन्यां जीवविराधनायां जिनस्य तद्योगानां वा को दोषः? नहि कारणान्तरवैकल्यप्रयुक्तकार्याभावेऽधिकृतकारणस्थाशक्ततोद्भावनमधीततर्कशास्त्रा.विदधते। इत्थं सति दण्डसत्त्वेऽपि चक्राभावे घटाभावाद्दण्डस्यापि घटाशक्तताया उद्भावनीयत्वप्रसङ्गादिति । अत्र परः शङ्कतेनण जिणजोगाउ तहा, जलाइजीवाणऽघायपरिणामो ॥ अचित्तपएसे णं, जह गमणं पुप्फचलाए ॥७२॥
[ननु जिनयोगातू तथा जलादिजीवानामघातपरिणामः॥ अचित्तप्रदेशे यथा गमनं पुष्पचूलायाः ॥७२॥]
5
HAGRICURRIAGECORRIORANG
-
5
'

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304