SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ | सटिप्पणा ॥स्वोपड़ चिः ॥ गाथा-७० ॥२५२॥ यत्वाद् । न द्वितीयः, तादृशस्य जीवघातस्य सयोगिकेवलिनो दोपत्वेऽयोगिकेवलिनोऽपि तद्दोषत्वाप्रच्यवादिति बहुतरमृहनीयम् ।।६९॥ धर्मपरीक्षा अथ केवलिनो योगा एव रक्षाहेतव इति पराभ्युपगमप्रकारं विकल्प्य दूषयन्नाह॥२५२॥ सा तस्स सरूवेणं, वा वावारेण आइमे पक्खे ॥ पडिलेहणाइहाणी, बितिए अ असक्कपरिहारो॥ ७० ॥ [सा तस्य स्वरूपेण वा व्यापारेण आदिमे पक्षे ॥ प्रतिलेखनादिहानिः, द्वितीये चाशक्यपरिहारः॥ ७० ॥] व्याख्या-'सा तस्स'त्ति । सा जीवरक्षा, तस्य केवलिनः शुभयोगस्य, स्वरूपेण सत्तामात्रेण, वा अथवा, व्यापारेणजीवरक्षार्थ स्वस्य रक्षणीयजीवस्य वाऽन्यदेशनयनाभिमुखपरिणामेन । आदिमे प्रथमे, पक्षे प्रति लेखनादिहानिः। प्रतिलेखना हि ट्र केवलिनः प्राणैः संसक्तस्यैव वस्त्रादेः प्रवचने प्रसिद्धा ॥ तदुक्तमोघनियुक्तो-"पाणेहि उ संसत्ता, पडिलेहा होइ केवलीणं तु ॥ संसत्त मसंसत्ता, छउमस्थाणं पडिलेहा" ॥२५७॥ (प्राणैः संसक्तानां प्रतिलेखा भवति केवलिनां तु । संसक्तासंसक्तानां छद्मस्थानां तु प्रतिलेखा।) सा च स्वरूपेणैव योगानां जीवरक्षाहेतुत्वेऽनुपपन्ना स्यात् , तद्व्यापारं विनापि जीवरक्षोपपत्तौ तद्विविक्तीकरणप्रयासस्य पलिमन्थत्वाद्, न च पलिमन्थः केवलिनोऽपि युज्यते, अत एव प्रत्युपेक्षितमपि वस्त्राद्यवश्यम्भाविजीवसंसर्ग जानन् केवली पलिमन्थादेव नाऽनागतमेव प्रत्युपेक्षते, किन्तूपभोगकाल एव प्रत्युपेक्षते इति व्यवस्थितम् ॥ तदुक्तम्-"संसञ्जइ धुवमेअं, अपेहि तेण पुव पडिलेहे ॥ पडिलेहिअंपि संस-जइत्ति संसत्तमेव जिणा ॥२५८॥" त्ति । एतद्वयाख्या यथा-संसज्यते प्राणिभिः संसर्गमुपयाति, ध्रुवमवश्यम् , एतद्वस्त्रादि, अप्रत्युपेक्षित सत् , तेन पूर्वमेव केवलिनः प्रत्युपेक्षणां कुर्वन्ति । यदि पुनरपि (यदा तु पुनरेवं) संविद्रते-इदमिदानी वस्त्रादि, प्रत्युपेक्षितमप्युपभोगकाले संसज्यते, तदा 'संसत्तमेव जिण'त्ति संसक्तमेव जिनाः केवलिनः प्रत्युपेक्षन्ते,
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy