________________
धर्मपरीक्षा
॥२५१॥
| पापभाजः । न चैतत्काल्पनिकम्, यन 'उच्चालिअंमि पाए' इत्यादिः भणितम् ||" यत एव भगवतोऽहिंसातिशयः, अत एव 'अणासवो केवलीणं ठाणं' इति प्रश्नव्याकरणसूत्रे केवलिनां स्थानं केवलिनामहिंसायां व्यवस्थितत्वादित्युक्तम् । तथा चतुःशरणप्रकीर्णकेऽपि 'सबजिआणमहिंसं, अरिहंता' - इत्यत्र सर्वे सूक्ष्मवादरत्रसस्थावरलक्षणा ये जीवास्तेषां न हिंसाऽहिंसा तामर्हन्त इति विवृतमिति चेत्, नन्वेवं योगजन्यजीव घाताभावरूपाया जीवरक्षाया भगवतोऽतिशयत्वं स्वीकुर्वाणस्य तव मते सयोगिकेवलिनो योगाज्जीवघातो मा भूद्, अयोगिकेवलिवन्मशकादियोगादेव तत्कायस्पर्शेन मशकादिघातस्तु जायमानः कथं वारणीयः ? समानावच्छेदकतासम्बन्धेन तत्र केवलि| योगानां प्रतिबन्धकत्वात् स वारणीय इति चेत् । तत्किं प्रतिबन्धकत्वं शुभयोगत्वेन, उत केवलियोगत्वेन, आहोस्वित् क्षीणमोहयोगत्वेन ? | नाद्यः, अप्रमत्तसंयतानामपि जीवघातानापत्तेः तेषामप्यात्माद्यनारम्भकत्वेन शुभयोगत्वात् । न द्वितीयः, केवलियोगत्वेन जीवघातप्रतिबन्धकत्वे क्षीणमोहयोगात् तदापत्तेरप्रतिबन्धात्, सा च तवानिष्टेति । नापि तृतीयः क्षीणमोहयोगत्वेन तत्प्रतिबन्धकत्वे कल्पनीये आवश्यकत्वाल्लाघवाच्च मोहक्षयस्यैव तथात्वकल्पनौचित्यात् । तथा चायोगिकेवलिनोऽपि कायस्पर्शान्मशकादिव्यापरत्यभ्युपगमो दुर्घटः स्यादिति । न च सर्वजीवाहिंसालक्षणोऽतिशयोऽहिंसायाः केवलिस्थानत्वं वाऽयोगिकेवलिबहिर्भावेन क्वापि प्रतिपादितमस्ति, येन त्वया तत्र व्यभिचारवारणाय क्षीणमोहयोगत्वेन जीव घातप्रतिबन्धकत्वं कल्प्यमानं युक्तिक्षमं स्यादिति सर्वजीवा हिंसादिप्रतिपादनं सकलभावाकरणनियमनिष्ठाभिधानाभिप्रायेणैव नतु हिंसाया अपि सर्वथाऽभावाभिप्रायेण । अनाभोगस्तु न तज्जनको येन तदभावातदभावः स्यादिति तु शतशः प्रतिपादितमेवेति न किञ्चिदेतदिति स्मर्त्तव्यम् । किंच - मशकादिकर्तृकजीवघातं प्रत्यपि केवलियोगानां त्वया प्रतिबन्धकत्वं कल्प्यते तत् केवलं व्यसनितयैव, उत तादृशस्यापि तस्य दोषत्वात् । नाद्यः, व्यसनितामात्रकृतकल्पनाया अनादे
सटिप्पणा | खोप चिः ॥
गाथा - ६९ ॥२५१ ॥