________________
धर्मपरीक्षा ॥२५० ॥
हन्दीत्याक्षेपे, तदा तदभावे - योगाभावेन जीवरक्षाऽभावेऽद्योगिकेवलिनो हीनत्वं सयोगिकेवल्यपेक्षयाऽपकृष्टत्वं भवेद् । अयं भावः - जीवघाताभावरूपा जीवरक्षा किं त्वया गुणरूपाऽभ्युपगम्यते, दोषरूपा, उभयरूपा, अनुभयरूपा वा ?, आद्ये तद्गुणवैकल्येन्ायोगिकेवलिनो हीनत्वं दुर्निवारमेव । द्वितीये तु स्वाभ्युपगमस्य हानिर्लोकशास्त्रविरोधश्च । तृतीयश्च पक्षो विहितक्रियापरिणतयोगरूपां जीवरक्षामधिकृत्य विहितक्रियात्वेन गुणत्वं योगत्वेन च दोषत्वमभिप्रेत्य सम्भवदुक्तिकोऽपि स्वाभाविकजीवघाताभावरूपां जीवरक्षामधिकृत्यासम्भवदुक्तिक एव; नहि स गुणो दोषश्चेत्युभयरूपतामास्कन्दतीति । चतुर्थे तु तदभावेऽप्ययोगिकेवलिन इवसयोfree footsपि न बाधक इति, किं तत्रावश्यम्भाविजीव विराधनानिरासव्यसनितया १ ॥ अथ जीवघाताभावमात्ररूपा जीवरक्षा न गुणः, किन्तु योगजन्यजीवघाताभावरूपा, सा च मशकादिकर्तृकमशकादिजीव घातकाले ज्योगिकेवलिनोऽपि विशिष्टाभावसच्चान्नानुपपन्नेति न तस्य तद्गुणवैकल्यम् । न वा सयोगिकेवलिनोऽपि योगात् कदाचिदपि जीवघातापत्तिः, तादृशजीवरक्षारूपातिशयस्य चारित्रमोहनीयक्षयसमुत्थस्य ज्ञानावरणीयक्षयसमुत्थकेवलज्ञानस्येव सर्वकेवलिसाधारणत्वात् संयतानां यज्ञ्जीवविषयका भोगस्तज्ञ्जीवरक्षाया नियतत्वाच्च । अत एव सामान्यसाधूनामप्यनाभोगजन्यायामेव विराधनायां परिणामशुद्धया फलतोऽवधकत्वमुपदर्शितम् ॥ तथा चोक्तं हितोपदेशमालायां-" 'णणु कह उवउत्ताण वि, छउमत्थमुणीण सुहुमजिअरक्खा १ || सच्च तहवि ण वहगा, उवओगवरा जओ भणिअं ॥१॥” एतद्व्याख्या यथा - नन्विति पूर्वपक्षोपन्यासे । छद्मस्थानां विशिष्टातिशयज्ञानरहितानां मुनीनां साधूनामुपयुक्तानामपि सम्यगीर्यासमितानामपि, सूक्ष्माणां चर्मचक्षुषामदृश्यानां जीवानां कथं रक्षासम्भवः ?, आचार्य आह-सत्यमवितथमेतत्, तथापि विशिष्टज्ञानशून्या अपि यद्युपयोगपराः पूर्वोक्तयुक्त्या चङ्क्रमणप्रवृत्तास्तदा सम्भवत्यपि प्राणिवधे न बधका-न वधकार्य
सटिप्पणा ॥ स्वोपज्ञ
वृचिः ॥ गाथा - ६९
॥२५०॥