________________
| सटिप्पणा ॥ खोपड़
वृचिः ॥ गाथा-६८ ॥२४९॥
पदार्थानां तुल्यवत्प्रकृतधर्मविशिष्टक्रियान्वयित्वेनैव समुच्चयनिर्वाहाद् । एवं च यथा सिकतादौ घृतादिसंसर्गेऽपि स्नेहाभावान बन्धः, धर्मपरीक्षा बदरचूर्णसक्तुचूर्णादीनां तु चिरकालस्थितिहेतुस्नेहविशेषाभावादल्पकालीनो बन्धः, कणिकादीनां तु स्नेहोत्कर्षादुत्कृष्टबन्ध इत्यत्र ॥२४९॥
बदरचूर्णादीनां तुल्यवदेव स्नेहविशेषाभावविशिष्टप्रकृतघृतादिसंसर्गनिमित्तकाल्पकालीनबन्धभवनक्रियान्वयेनैव समुच्चयः प्रतीयते, तथा प्रकृतेऽप्युपशान्तादीनां तुल्यवदेव स्थितिनिमित्तकषायाभावविशिष्टप्रकृतजीवघातनिमित्तकसामयिकबन्धभवनक्रियान्वयेनैव समुच्चयोपपत्तरिति नारकतिर्यग्नरामरा इति दृष्टान्तेन प्रत्येकपदार्थधर्ममादाय समुच्चयखण्डनमपाण्डित्यविजृम्भितमेव, तस्य केनाप्यनभ्युपगतत्वात् । प्रकृतधर्मविशिष्टक्रियान्वयतुल्यतारूपसमुच्चयखण्डने तु समुच्चयतात्पर्यकवाक्यस्यैवानुपपत्तिरिति न किञ्चिदेतत् ॥ ६८॥
तदेवमाचाराङ्गवृत्त्यभिप्रायेण यावदयोगिकेवलिनं संयतानामपि कायस्पर्शनावश्यम्भाविन्या जीवविराधनाया व्यक्तमेव प्रतीता&ावपि ये 'अयोगिकेवलिन्यवश्यम्भावी मशकादिघातो मशकादिकर्तृको नत्वयोगिकेवलिकर्तृकः' इति शब्दमात्रेण मुग्धान् प्रतारयन्ति
त एवं प्रष्टव्याः सोऽयमेवंविध एव सयोगिकेवलिनः कथं न भवति ? इति । इत्थं पृष्टाश्च त एवमुत्तरं ददते-योगवतो हि केवलिनो जीवरक्षेव भवति, तत्कारणानां शुभयोगानां सत्त्वात् । अयोगिकेवलिनस्तु योगानामेवाभावेन स्वरूपयोग्यतयापि निजयोगजन्यजीवघातसामग्र्या अभाववज्जीवरक्षासामग्र्या अप्यभाव एवेति तत्राहजियरक्खा सुहजोगा, जइ तुह इट्टा सजोगिकेवलिणो॥ हंदि तया तयभावे, अजोगिणो हुज हीणत्तं ॥६९॥
[नीवरक्षा शुभयोगाद् , यदि तवेष्टा सयोगिकेवलिनः॥ हन्दि तदा तदभावे अयोगिनो भवेद्धीनत्वम् ॥ ६९ ॥] 'जिअरख'त्ति।जीवरक्षा-जीवघाताभावरूपा, यदि तव मते सयोगिकेवलिन इष्टा, केवलियोगानामेव जीवरक्षाहेतुत्वात,
HARASSO