Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 259
________________ धर्मपरीक्षा ॥२४७॥ SUBCRECENGHLIG प्रयोजनाभावाद् । योगवत्सु चोपादानकारणसत्त्वे कर्मबन्धलक्षणकार्यसत्त्वमित्यन्वयनियमं प्रदर्शयन्नेव योगवतामपि कर्मबन्धवैचित्र्यमुपादानकारणवैचित्र्यायत्तमेवेति नियमसिद्धयर्थ प्रथमं कारणावैचित्र्ये कार्यर्या वैचित्र्यमुपशान्तक्षीणमोहसयोगिकेवलिनां स्थितिनिमि #सटिप्पणा ॥स्वोपन तकषायोदयाभावात् सामयिकः कर्मबन्ध इति समुच्चयभणनेन बमाण वृत्तिकारः, तेषां च त्रयाणामपि मिथ्यात्वाविरतिकषाययोगप्रमादलक्षणानां पञ्चविधोपादानकारणानां मध्ये केवलयोगस्यैव सत्त्वेन कर्मबन्धोऽपि तत्प्रत्यय एव स च सामयिकसातवेदनीयकर्मब- गाथा-६७ न्धलक्षणः समान एव भवति, विचित्रताहेतुमोहनीयोदयाभावाद्, न पुनरुपशान्तस्येव क्षीणमोहस्यापि जीवघातादिकं भवतीति बुद्धया |॥२४७॥ समुच्चयेन भणनम् ,सर्वांशसाम्यमधिकृत्य समुच्चयेन भणितेरसम्भवाद् ,अन्यथोपशान्तस्येव क्षीणमोहस्यापि जीवघातादिहेतुमोहनीयसत्तापि वक्तव्या स्यात् , तथा केवलिवदुपशान्तस्याऽपि सर्वज्ञत्वं वक्तव्यं प्रसज्येत; नहि नारकर्तियनरामराः कर्मबन्धका इत्यादिसमुच्चयभणनेन | सर्वेषामपि साम्यं कस्यापि संमतम् । तस्माद्यथा सामान्यतः कर्मबन्धमधिकृत्य नारकादीनां समुच्चयेन भणनं तथा सामयिकसातवेदनी|यकर्मबन्धमधिकृत्योपशान्तादीनां समुच्चयेन भणनमित्यत्र प्रासङ्गिके प्रथमावृत्तिग्रन्थे नास्माकमनभीप्सितसिद्धिरित्याशङ्कायामाहजो पुण इह कत्तारं, नियमा मसगाइजीवमहिकिच्च ॥ भणइ इमं पासंगिय-मइप्पसंगो फुडो तस्स ॥६८॥ [यः पुनरिह कर्तारं, नियमान्मशकादिजीवमधिकृत्य ॥ भणतीदं प्रासङ्गिकं, अतिप्रसङ्गः स्फुटस्तस्य ॥ ६८॥] . व्याख्या-'जो पुण'त्ति । यः पुनरिह शैलेश्यवस्थायामवश्यम्भाविन्या जीवविराधनायां कर्तारं नियमान्मशकादिजी | वमधिकृट्येदमाचाराङ्गवृत्त्युक्तं प्रासङ्गिक भणति तद्विराधनाकर्तृमशकादिजीवगतोपादानकर्मबन्धकार्यकारणभावप्रपञ्चप्रदर्शनमात्रप्रसङ्गप्राप्तं वदति, नतु, स्वसम्बद्धजीवविराधनाफलाफलवैचित्र्यप्रदर्शनपरम् , तस्य स्फुट एवातिप्रसङ्गः । एवं ह्यप्रमत्तसंयतस्यापि BARDASKAcc.

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304