Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मपरीक्षा ॥२२६॥
पत्तिर्द्रव्य हिंसाकालेऽप्यप्रमत्तयतीनां मनोवाक्कायशुद्धत्वानपायादिति वाच्यम्, चतुर्थभङ्गोपपादकमनोवाक्कायशुद्धताया गुप्तिरूपाया एव ग्रहणाकू, अत एव नियतचतुर्थभङ्गस्वामित्वमयोगिकेवलिनोऽपि नानुपपन्नम्, शुद्धप्रवृत्तिव्यापारेणैव निरोधव्यापारेणापि मनोवाक्कायशुद्धताऽनपायाद्, अन्यथा तदविनाभावि ध्यानानुपपत्तेः । उक्तं हि - " ध्यानं करणानां सत्प्रवृत्ति-निरोधान्यतरनियतम् ” - “सुदढप्पयचवावारणं, णिरोहो व विजमाणाणं || झाणं करणाण मयं, ण उ चित्तणिरोहमेत्तागं ॥ ३०७१ ।। [ सुदृढप्रयत्नव्यापारणं निरोधो वा विद्यमानानाम् । ध्यानं करणानां मतं न तु चित्तनिरोधमात्रकम् ||] इत्यादिग्रन्थेन विशेषावश्यके शोधकेन च व्यापारमुपसम्पद्यो - परतेनापि शुद्धत्वव्यवहारो भवत्येव, यथा जलेन शुद्धं वस्त्रमिति । सर्वोत्कृष्टमनोवाक्कायशुद्धतयाऽयोगिकेवली नियमेनैव चतुर्थभङ्गस्वामी युज्यत इति । न च शैलेश्यवस्थायामपि शारीरस्पर्शमागतानां मशकादीनां व्यापत्तौ चतुर्थभङ्गस्वामित्वनियमानुपपत्तिः, द्रव्यहिंसायास्तदनुकूलनोदनाख्ययोगव्यापारनियतत्वात्, तत्र तदभावात्तत्सम्बन्धमात्रस्यातिप्रसञ्जकत्वादिति दिक् ।। ५७ ॥
यदि च 'न द्रव्यतो न भावतो मनोवाक्कायशुद्धस्य साधोः' इति वचनानुरोधेन सयोगिकेवलिनश्चतुर्थभङ्गस्वामित्वमेवाभिमतं भवेत् तदाऽप्रमत्तादीनां सयोगिकेवलिपर्यन्तानां द्रव्यहिंसया दोषाभावतौल्यं प्रवचनाभिहितं न घटेतेत्याहपडं चि वयणमिणं, दहव्वं होइ कप्पभासस्स ॥ जं अपमत्ताईणं, सजोगिचरमाण जो हिंसा ॥ ५८ ॥
[ प्रकटमेव वचनमिदं द्रष्टव्यं भवति कल्पभाष्यस्य । यदप्रमत्तादीनां सयोगिचरमाणां नो हिंसा ।। ५८ ।। ]
व्याख्या - 'पयडं चिय'त्ति । प्रकटमेवैतद्वचनं कल्पभाष्यस्य द्रष्टव्यं भवति रागद्वेपरहितेन परीक्षण, यदप्रमत्तादीनां सयोगिकेवलिचरमाणां नो नैव हिंसा, व्याप्रियमाणयोगानामपीति शेषः । तथा च तद्ग्रन्थ:- "अप्पेव सिद्धंतमजा
सटिप्पणा
॥खोपन
वृत्तिः ॥
गाथा - ५७ ॥२२६॥

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304