SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२२६॥ पत्तिर्द्रव्य हिंसाकालेऽप्यप्रमत्तयतीनां मनोवाक्कायशुद्धत्वानपायादिति वाच्यम्, चतुर्थभङ्गोपपादकमनोवाक्कायशुद्धताया गुप्तिरूपाया एव ग्रहणाकू, अत एव नियतचतुर्थभङ्गस्वामित्वमयोगिकेवलिनोऽपि नानुपपन्नम्, शुद्धप्रवृत्तिव्यापारेणैव निरोधव्यापारेणापि मनोवाक्कायशुद्धताऽनपायाद्, अन्यथा तदविनाभावि ध्यानानुपपत्तेः । उक्तं हि - " ध्यानं करणानां सत्प्रवृत्ति-निरोधान्यतरनियतम् ” - “सुदढप्पयचवावारणं, णिरोहो व विजमाणाणं || झाणं करणाण मयं, ण उ चित्तणिरोहमेत्तागं ॥ ३०७१ ।। [ सुदृढप्रयत्नव्यापारणं निरोधो वा विद्यमानानाम् । ध्यानं करणानां मतं न तु चित्तनिरोधमात्रकम् ||] इत्यादिग्रन्थेन विशेषावश्यके शोधकेन च व्यापारमुपसम्पद्यो - परतेनापि शुद्धत्वव्यवहारो भवत्येव, यथा जलेन शुद्धं वस्त्रमिति । सर्वोत्कृष्टमनोवाक्कायशुद्धतयाऽयोगिकेवली नियमेनैव चतुर्थभङ्गस्वामी युज्यत इति । न च शैलेश्यवस्थायामपि शारीरस्पर्शमागतानां मशकादीनां व्यापत्तौ चतुर्थभङ्गस्वामित्वनियमानुपपत्तिः, द्रव्यहिंसायास्तदनुकूलनोदनाख्ययोगव्यापारनियतत्वात्, तत्र तदभावात्तत्सम्बन्धमात्रस्यातिप्रसञ्जकत्वादिति दिक् ।। ५७ ॥ यदि च 'न द्रव्यतो न भावतो मनोवाक्कायशुद्धस्य साधोः' इति वचनानुरोधेन सयोगिकेवलिनश्चतुर्थभङ्गस्वामित्वमेवाभिमतं भवेत् तदाऽप्रमत्तादीनां सयोगिकेवलिपर्यन्तानां द्रव्यहिंसया दोषाभावतौल्यं प्रवचनाभिहितं न घटेतेत्याहपडं चि वयणमिणं, दहव्वं होइ कप्पभासस्स ॥ जं अपमत्ताईणं, सजोगिचरमाण जो हिंसा ॥ ५८ ॥ [ प्रकटमेव वचनमिदं द्रष्टव्यं भवति कल्पभाष्यस्य । यदप्रमत्तादीनां सयोगिचरमाणां नो हिंसा ।। ५८ ।। ] व्याख्या - 'पयडं चिय'त्ति । प्रकटमेवैतद्वचनं कल्पभाष्यस्य द्रष्टव्यं भवति रागद्वेपरहितेन परीक्षण, यदप्रमत्तादीनां सयोगिकेवलिचरमाणां नो नैव हिंसा, व्याप्रियमाणयोगानामपीति शेषः । तथा च तद्ग्रन्थ:- "अप्पेव सिद्धंतमजा सटिप्पणा ॥खोपन वृत्तिः ॥ गाथा - ५७ ॥२२६॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy