SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२२५॥ SAMOH सटिप्पणा || खोपज्ञ वृचिः ॥ गाथा-५७ ॥२२५॥ व्याख्या-णोडव्व'त्ति। नोद्रव्याद नोभावाद् यथान हिंसा, तथा द्रव्यमात्रेणापि हिंसा, तत्त्वतो न हिंसा। तेन तया द्रव्यहिंसया, दोषं जिनस्य कः संज्ञी भाषेत-अपि तु न कोऽपीत्यर्थः । इदमुक्तं भवति-हिंसामधिकृत्य द्रव्यभावाभ्यां चतुभङ्गी तावदियं श्रावकप्रतिक्रमणसूत्रवृत्तावुक्ता, १ द्रव्यतो भावतश्च हिंसा-'हन्मि' इति परिणतस्य व्याधादेमंगवधे। २ द्रव्यतो न भावतः-ईर्यासमितस्य साधोः सत्चबंध । यदागम:-"वजेमित्ति परिणओ, संपत्तीए विमुच्चइ वेरा ॥ अवहंतो वि ण मुच्चइ, किलिट्ठभावोऽतिवायस्स ॥६१॥ [चतुश्चत्वारिंशगाथावृत्तौ १६८ पृष्ठे विवरणमस्या गाथायाः]"त्ति । ३ भावतो न द्रव्यतः-अङ्गारमर्दकस्य कीटबुथाऽङ्गारमर्दने, मन्दप्रकाशे रज्जुमहिबुद्धया प्रतो वा । ४ न द्रव्यतो न भावतः-मनोवाकायशुद्धस्य साधोरिति । अत्र परश्चतुर्थभङ्गखामिनं सयोगिकेवलिनमेवाह । यत्तु चूर्णिकारेण "चउत्थो सुण्णो"त्ति भणितम् , तत्र खामिनमधिकृत्य केवलिनस्तत्स्वामिनो विद्यमानत्वात् तस्य सर्वोत्कृष्टचारित्रान्यथानुपपल्या मनोवाकायः शुद्धत्वाद् , अन्यथा स्नातकः केवली न स्यात् , किन्तु हिंसास्वरूपमधिकत्यैवोक्तम् , तच्चैवम्-यदि हिंसा तर्हि न द्रव्यतो न भावत इति वक्तुमप्यशक्यम् , द्रव्यभावयोरन्यतरत्वेनावश्यम्भावात् , तेन चतुर्थो भङ्गः शून्यो भणितः, विरोधाद् । न च शैलेश्यवस्थायां केवली खामी भविष्यतीति शङ्कनीयम् , तस्य सिद्धस्येव योगाभावेन मनोवाकायैः शुद्धत्वाभावाद् , नह्यविद्यमाने वस्त्रे 'वस्त्रेण शुद्ध' इति व्यवहियत इत्याद्यसौ समर्थयामास । तच्चायुक्तम् , हिंसाव्यवहाराभावमधिकृत्यैव चतुर्थभङ्गशून्यत्वाभिधानाद् विरुद्धधर्माभ्यां तदभावस्येव तद्वद्भेदस्यापि सम्भवेन तच्छ्न्यत्वव्यवहारोपपत्तेः । हिंसास्वरूपमधिकृत्य तु द्रव्यमात्रहिंसायामप्यहिंसात्वं प्रवचने प्रतीतमिति कदाचिद् द्वितीयभङ्गस्वामित्वेऽपि भगवतः स्नातकस्य निग्रन्थस्येव चतुर्थभङ्गस्वामित्वाऽविरोध एव, अहिंसापरिणत्यभेदाश्रयणेन तद्भङ्गस्यापि सम्भवक्तिकत्वात् । न चैवं द्वितीयभङ्गकालेऽपि चतुर्थभङ्गा
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy