SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२२४॥ साया दोषा-द्रव्यस्तवस्थलीययतरप्यनुपपत्तेः ॐॐॐ मशक्यत्वाद् , एवमनिष्टबीजरूपमनयोबेष्टफलहेतुत्वन कल्प्यावाभिव्यक्तरप्यनुपपत्तेः, कुसुमादिहिंसायाः सन्दिग्धत्वेन तथाविधपातकाहेतुत्वे मिथ्यादृशामपि तस्यास्तथात्वापत्तेः, तस्माद् द्रव्यस्तवस्थलीयहिंसायामनुबन्धशुद्धत्वेनैव भगवदाज्ञा सम्यक्त्वादिभावहेतुत्वा |सटिप्पणा |दिति ॥ ५५ ॥ तदेवमाभोगेऽपि द्रव्यहिंसाया दोषानावहत्वं यत्सिद्धं तदाह | वृचिः ॥ तम्हा व्यपरिग्गह-दव्यवहाणं समंमि(मेवि)आभोगे॥ण ह दोसो केवलिणो, केवलनाणे वचरणे वा ॥५६॥ गाथा५६५७ [तस्माद् द्रव्यपरिग्रह-द्रव्यवधयोः समेऽप्याभोगे ॥ नैव दोषः केवलिनः केवलज्ञाने वा चरणे वा ॥५६॥] IRRI 'तम्ह'त्ति । तस्माद् द्रव्यपरिग्रह-द्रव्यवधयोः समेऽप्याभोगे साक्षात्कारे, केवलिनो नैव दोषः, केवलज्ञाने 6 चारित्रे वा ज्ञानावरण-चारित्रमोहनीयक्षयजन्ययोः केवलज्ञान-चारित्रयोर्द्रव्याश्रनमात्रेणानपवादात् । यतु 'क्षीणमोहस्यापि स्नातकचारित्राभावात्सम्भावनारूढातिचाररूपस्यापि द्रव्याश्रवस्य यदि तत्प्रतिबन्धकत्वं तदा साक्षाजीवघातस्य द्रव्यरूपस्यापि तन्न्यायप्राप्तमेवेति केवलिनोऽपि द्रव्यहिंसा चारित्रदोष एवेति परेण प्रोच्यते, तदसत् , स्नातकस्य निग्रन्थभेदत्वाद् यथाख्यातस्यैव चारित्रभेदम्बात् तत्प्रति| बन्धकत्वस्य च द्रव्यहिंसायां त्वयाऽप्यनभ्युपगमात् । यदि च स्नातकचारित्रस्य द्रव्यहिंसा दोषः स्यात् तदा निर्ग्रन्थचारित्रस्यापि दोषः स्थादेव, निग्रन्थस्नातकयोरेकसंयमस्थानाभ्युपगमात् । “णिग्गंथ सणायाण, तुलं इकं च संजमट्ठाण" (निर्ग्रन्थस्नातकयोस्तुल्यमेकं च संयमस्थानम् ) इति पञ्चनिन्थीवचनादिति द्रष्टव्यम् ।। ५६ ॥ हिंसाचतुर्भङ्गयनुसारेणैव द्रव्याहंसया भगवतो दोषाभावमाहणोदव्वा णोभावा, जह तह हिंसा ण दव्वमित्तेणं॥ तेणं तीए दोसं, जिणस्स को भासए सण्णी ॥५७॥ [नोद्रब्बाद् नोभावाद् यथा तथा हिंसा न द्रव्यमात्रेण ॥ तेन तया दोषं जिनस्य को भाषते संज्ञी ॥ ५७ ॥] Res
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy