SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२२७ ॥ णमाणो, तं हिंसगं भाससि जोगवंतं । दव्वेण भावेण य संविभत्ता, चत्तारि भंगा खलु हिंसगते" || ३९३२ | अपीत्यभ्युच्चये, अस्त्यन्यदपि वक्तव्यमिति भावः । यदेवं योगवन्तं वस्त्रच्छेदनादिव्यापारवन्तं जीवं, हिंसकं त्वं भाषसे, तन्निश्रीयते सम्यक् सिद्धातमजानत ( नान) एवं प्रलापः (लपसि) । सिद्धान्ते योगमात्रप्रत्ययादेव न हिंसोपवर्ण्यते, अप्रमत्तसंयतादीनां सयोगिकेवलिपर्यन्तानां योगवतामपि तदभावात् । कथं तहिं सा प्रवचने प्ररूप्यते ? इत्याह-द्रव्येग भावेन च संविभक्ताश्रत्वारो भङ्गाः खलु हिंसकत्वे भवन्ति । तथाहि - १. द्रव्यतो नामका हिंसा न भावतः, २. भावतो नामैका हिंसा न द्रव्यतः, ३. एका द्रव्यतोऽपि भावतोऽपि, ४. एका न द्रव्यतो नापि भावतः । अथेषामेव यथाक्रमं भावनां कुर्वन्नाह - "आहच्च हिंसा समिअस्स जाउ, सा दबओ होड़ ण भावओ उ || भावेण हिंसा उ असंजयस्स, जे वा वि सत्ते ण सदा वहेइ ।। ३९३३ । संपत्ति तस्सेव जदा भविजा, सा दवहिंसा खलु भावओ अ || अज्झत्थसुद्धसजदा ण होजा, वघेण जोगो दुहओ वि हिंसा ।। ३९३४ ।। " ममितस्येर्यासमितावुपयुक्तस्य, ग्राSSत्य कदाचिदपि, हिंसा भवेत् सा द्रव्यतो हिंसा । इयं च प्रमादयोगाभावात् तत्त्वतो अहिंसैव, "मन्तव्याप्रमत्त योगात्प्राणव्यपरोपण हिंसा" इति (तत्वार्थ अ. ७ सू. ८) वचनात्, न भावत इति । भावेन भावतो, या हिंसा, न तु द्रव्यतः, साऽसंघतस्य प्राणातिपातादेरनिवृत्तस्य, उपलक्षणत्वात्संयतस्य वाऽनुपयुक्तगमनागमनादि कुर्वतो, ग्रानपि सत्त्वानसौ, मदैव न हन्ति तानप्याश्रित्य मन्तव्या, "जे वि न वाणिजंती, णियमा तेसिंग हिंसओ सो उ || ७५३ || ( ओघनि० ) "त्ति वचनाद् ॥ यदा तु तस्यैव प्राणिव्यपरोपण सम्प्राप्तिर्भवति, तदा सा द्रव्यतो भावतश्च (तोपि ) हिंसा प्रतिपत्तव्या । यः पुनरध्यात्मना चेतःप्रणिधानेन शुद्ध उपयुक्तगमनागमनादिक्रियाकारीत्यर्थः तस्य यदा वधेन प्राणिव्यपरोपणेन सह, योगः सम्बन्धो न भवति, तदा द्विधापि द्रव्यतो भावतोऽपि च , • सटिप्पणा ॥स्वोपज्ञ वृषिः ॥ गाथा-५८ ॥२२७!
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy