Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 252
________________ धर्मपरीक्षा ॥२४०॥ तयोगाशक्तिनियतमेव । यदाह सूत्रकृताङ्गवृत्तिकृत् - "सयोगी जीवो न शक्नोति क्षणमप्येकं निश्चलं स्थातुम्, अग्निना ताप्यमानोदकवत् कार्मणशरीरानुगतः सदा परिवर्त्तयन्ने वास्ते" इत्यादीति । तत्कार्यस्थूलक्रियायामप्यशक्यपरिहारारम्भ (म्भा) त्यागे योगाशक्तिरेव निमित्तमिति । केचित्तु सूक्ष्मक्रियाणामिव स्थूलक्रियाणामपि चलोपकरणतावशादनियत देशत्वावश्यकत्वात् तत्प्रयुक्तारम्भसम्भवः केवलिनोऽपि दुर्निवार इत्याहुः ||६८ || ननु यद्येवं स्थूलक्रियैव द्रव्यारम्भस्तदा केवलिनस्तस्य कादाचित्कत्वं न स्याद् इष्यते चायम - | न्यसाधूनामपि कादाचित्क एव, 'आहच्च हिंसा समिअस्स जा उ, सा दव्वओ होइ ण भावओ उ (वृत्तिः २२७ पृष्ठे ) । "त्ति वचनाद्इत्याशङ्कामेतद्वचनं फलीभूतसाक्षात्सम्बद्धारम्भविषयत्वान्नानुपपन्नम्, स च केवलिनोऽपि कादाचित्क एवेत्यभिप्रायेण निराचिकीर्षुराहसक्खं तु कायफासे, जो आरंभो कयाइ सो हुज्जा | अहिगिश्च तं णिमित्तं, भग्गिजइ कम्मबंधठिई ॥ ६५॥ ( साक्षात्तु कायस्पर्शे य आरम्भो कदाचित्स भवेत् ।। अधिकृत्य तं निमित्तं मृग्यते कर्मबन्धस्थितिः ॥ ६५ ॥ ) 'सक्खं तुत्ति साक्षान्नु कायस्पर्शे य आरम्भः स कदाचिदेव भवेत् तं च साक्षात्कायस्पर्शाज्जायमानं द्रव्यारम्भं व्यवहारिजनप्रतीयमानमिति गम्यं, निमित्तमधिकृत्य कर्मबन्धस्थितिर्मृग्यते शास्त्रकारैरिति गम्यम् । यद्यप्यप्रमत्तानामवश्यम्भावी जीवघातो न प्राणातिपात्वेन दोष:, तथापि निमित्तभूतस्यास्यैकाधिकरणोपादान सद्भावासद्भावकृतं फलवैचित्र्यं विचार्यत इत्यर्थः । कथमित्याहतत्थ णिमित्सरिसे, जेणोवादाणकारणाविक्खो । बंधाबंधविसेसो, भणिओ आयारवित्तीय ॥ ६६ ॥ [ तत्र निमित्ते सदृशे येनोपादानकारणापेक्षः । बन्धाबन्धविशेषो भणित आचारवृयाम् ।। ६६ ।। ] सटिप्पणा ॥ स्वोपज्ञ दुचिः ॥ गाथा - ६५ ६६ ॥२४० ॥

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304