________________
धर्मपरीक्षा ॥२४०॥
तयोगाशक्तिनियतमेव । यदाह सूत्रकृताङ्गवृत्तिकृत् - "सयोगी जीवो न शक्नोति क्षणमप्येकं निश्चलं स्थातुम्, अग्निना ताप्यमानोदकवत् कार्मणशरीरानुगतः सदा परिवर्त्तयन्ने वास्ते" इत्यादीति । तत्कार्यस्थूलक्रियायामप्यशक्यपरिहारारम्भ (म्भा) त्यागे योगाशक्तिरेव निमित्तमिति । केचित्तु सूक्ष्मक्रियाणामिव स्थूलक्रियाणामपि चलोपकरणतावशादनियत देशत्वावश्यकत्वात् तत्प्रयुक्तारम्भसम्भवः केवलिनोऽपि दुर्निवार इत्याहुः ||६८ || ननु यद्येवं स्थूलक्रियैव द्रव्यारम्भस्तदा केवलिनस्तस्य कादाचित्कत्वं न स्याद् इष्यते चायम - | न्यसाधूनामपि कादाचित्क एव, 'आहच्च हिंसा समिअस्स जा उ, सा दव्वओ होइ ण भावओ उ (वृत्तिः २२७ पृष्ठे ) । "त्ति वचनाद्इत्याशङ्कामेतद्वचनं फलीभूतसाक्षात्सम्बद्धारम्भविषयत्वान्नानुपपन्नम्, स च केवलिनोऽपि कादाचित्क एवेत्यभिप्रायेण निराचिकीर्षुराहसक्खं तु कायफासे, जो आरंभो कयाइ सो हुज्जा | अहिगिश्च तं णिमित्तं, भग्गिजइ कम्मबंधठिई ॥ ६५॥ ( साक्षात्तु कायस्पर्शे य आरम्भो कदाचित्स भवेत् ।। अधिकृत्य तं निमित्तं मृग्यते कर्मबन्धस्थितिः ॥ ६५ ॥ ) 'सक्खं तुत्ति साक्षान्नु कायस्पर्शे य आरम्भः स कदाचिदेव भवेत् तं च साक्षात्कायस्पर्शाज्जायमानं द्रव्यारम्भं व्यवहारिजनप्रतीयमानमिति गम्यं, निमित्तमधिकृत्य कर्मबन्धस्थितिर्मृग्यते शास्त्रकारैरिति गम्यम् । यद्यप्यप्रमत्तानामवश्यम्भावी जीवघातो न प्राणातिपात्वेन दोष:, तथापि निमित्तभूतस्यास्यैकाधिकरणोपादान सद्भावासद्भावकृतं फलवैचित्र्यं विचार्यत इत्यर्थः । कथमित्याहतत्थ णिमित्सरिसे, जेणोवादाणकारणाविक्खो । बंधाबंधविसेसो, भणिओ आयारवित्तीय ॥ ६६ ॥
[ तत्र निमित्ते सदृशे येनोपादानकारणापेक्षः । बन्धाबन्धविशेषो भणित आचारवृयाम् ।। ६६ ।। ]
सटिप्पणा
॥ स्वोपज्ञ दुचिः ॥
गाथा - ६५ ६६
॥२४० ॥