SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२३९॥ तेसु चेत्र चिट्ठित्तए, से तेणट्ठेणं जाव बुच्चइ केवली अस्सि समयंसि जाव चिट्ठित्तए | " [केवली भदन्त । अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा पादं वा बाहुं वा उरुं वा अवगाह्य तिष्ठति प्रभुः केवली एष्यत्काले तेष्वेवाकाशप्रदेशेषु हस्तं वा यावदवगाह्य स्थातुम् ? गौतम ! नायमर्थः समर्थः । स केनार्थेन भदन्त ? एवमुच्यते - यावत्केवली अस्मिन् समये येष्वाकाशप्रदेशेषु यावतिष्ठति न प्रभुः केवली एष्यत्कालेऽपि तेष्वेवाकाशप्रदेशेषु हस्तं वा यावत्स्थातुम् । गौतम ! केवलिनो वीर्यसयोगसद्द्रव्यतया चलानि उपकरणानि भवन्ति, 'चलोपकरणार्थतया च केवली अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा यावत्तिष्ठति, न प्रभुः केवली एष्यत्कालेऽपि तेष्वेव स्थातुम्, स तेनार्थेन यावदुच्यते अस्मिन् समये यावत्स्थातुम् |] एतद्वृत्तिर्यथा - 'अस्मि समयंसि'त्ति । अस्मिन् वर्त्तमानसमये 'उरगाहित्ता णं' ति अवगाद्य - आक्रम्य 'सेवकालंसि वित्ति एण्यत्कालेsपि वीरियस जोगसन्याएति वीर्य - वीर्यान्तरायक्षयप्रभवा शक्तिः तत्प्रधानं सयोगं मानसादिव्यापारयुक्तं यत् सद्विद्यमानं द्रव्यं जीवद्रव्यं तत्तथा वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान् विना चलनं न स्यादिति सयोगशब्देन सद्द्रव्यं विशेषितम् । सदिति विशेषणं च तस्य सदासत्तावधारणार्थम् । अथवा ख आत्मा तद्रूपं द्रव्यं स्वद्रव्यम्, ततः कर्मधारयः, अथवा वीर्यप्रधानः सयोगो योगवान् वीर्यसयोगः, स चासौ सद्रव्यश्च मनःप्रभृतिवर्गणायुतो वीर्यसयोगसद्द्रव्यस्तस्य भावस्तत्ता, तया हेतुभूतया 'चलाई 'त्ति अस्थिराणि 'उबगरणाई' अङ्गानि, 'चलोवगरणदृगाए अ चिलोपकरणलक्षणो योऽर्थस्तद्भावश्चलोपकरणता तया चशब्दः पुनरर्थ इति । एतच्च चलोपकरणत्वं निरन्तर सूक्ष्मगात्रसञ्चारबीजं चलनसामान्नसामग्र्यां निविशमानं गमनादिक्रियापरिणाममात्रसहकृतं सद् गमनादिस्थूलक्रियामपि जनयत्येव । सा च स्थूलक्रियाऽव| जनीयारम्भसङ्गता सती केवलिनो न वीर्यान्तरायक्षयक्षतिकरी, यतस्तत्सामान्यकारणं चलोपकरणत्वमपि नामकर्मपरिणतिविशेषापादि सटिप्पणा || स्वोपज्ञ वृषः ॥ गाथा - ६४ ॥२३९॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy