________________
व्याख्या-'तत्थ'त्ति । तत्र साक्षात्कायस्पर्शाजायमानारम्भ निमित्ते सहशे आकेवलिनमेकरूपे सति येन कारणेनोपादाधर्मपरीक्षा नकारणस्यापेक्षा नियतसद्भावासद्भावाश्रयणरूपा यत्र स तथा बन्धाबन्धविशेषः, कर्मबन्धतारतम्यतदभावप्रकारो भणित इति
सटिप्पणा ॥२४॥
F॥ खोपड़ आचारवृत्तौ । तत्र प्रथममेतदधिकारसम्बद्धमाचाराङ्गलोकसाराध्ययनचतुर्थोद्देशकस्थं सूत्रं (१५८) लिख्यते-"से अभिकम
वृतिः ॥ माणे पडिकममाणे संकुचे(च)माणे पसारमाणे विणिवट्टमाणे संपलिजमाणे एगया गुणसमिअस्स रीयंतो कायसंफासं समणुचिन्ना
गाथा-६६ एगइआ पाणा उद्दाइंति, इहलोगवेदणवेजावडियं जं आउट्टिकयं कम्मं तप्परिन्नाय विवेगमेति एवं से अप्पमादेणं विवेगं किट्टइ वेयवी
॥२४॥ त्ति" ॥ अथैतवृत्तिः-'सेइत्यादि । स भिक्षुः सदा गुर्वादेशविधायी एतद्व्यापारवान् भवति, तद्यथा-अभिकामन्-गच्छन् ,
प्रतिक्रामन् -निवर्तमानः, सङ्कुचन हस्तपादादिसङ्कोचनतः, प्रसारमन हस्तादीनवयवान् , विनिवर्तमानः समस्ताशुभव्यापाहै। रात , सम्यक् परिः समन्ताद् हस्तपादादीनवयवांस्तन्निक्षेपस्थानानि वा रजोहरणादिना मृजन सम्परिमृजन , गुरुकुलवासे वसेदिति
सर्वत्र सम्बन्धनीयम् । तत्र निविष्टस्य विधिः-भूम्यामेकमूरुं व्यवस्थाप्य द्वितीयमुरिक्षप्य तिष्ठेत् , निश्चलस्थानासहिष्णुतया भूमीं प्रत्युपेक्ष्य प्रमृज्य(माय) च कुक्कुटीविज़म्भितदृष्टान्तेन सङ्कोचयेत्प्रसारयेद्वा, स्वपन्नपि मयूरवत् स्वपिति, स किलान्यसत्त्वभयादेकपार्श्वशायी सचेतनश्च स्वपिति, निरीक्ष्य च परिवर्तनादिकाः क्रिया विधत्ते इत्येवमादि सम्परिमृजन् सर्वाः क्रियाः करोति । एवं चाप्रमत्ततया पूर्वोक्ताः क्रियाः कुर्वतोऽपि कदाचिदवश्यम्भावितया यत् स्यात्तदाह-एगया' इत्यादि । एकदा कदाचिद् गुणसमितस्य गुणयुक्तस्याप्रमत्ततया यतेः रीयमाणस्य सम्यगनुष्ठानवतोऽभिक्रामतः प्रतिक्रामतः सकुचतः प्रसारयतो विनिवर्तमानस्य सम्परिमृजतः कस्याश्चिदवस्थायां कायः शरीरं तत्संस्पर्शमनुचीर्णाः कायसङ्गमागताः सम्पातिमादयः प्राणिन एके परितापमाप्नुवन्ति, एके |