________________
धर्मपरीक्षा ॥२४॥
| साटिप्पणा ४॥खोपक
वृचिः ॥ गाथा-६६ ॥२४२॥
ग्लानतामुपयान्ति, एकेऽवयवषिध्वंसमापद्यन्ते । अपश्चिमावस्थां तु सूत्रेणेव दर्शयति-एके प्राणाःप्राणिनः, अपद्रान्ति-प्राणैर्विमुच्यन्ते। अत्र च कर्मबन्धं प्रति विचित्रता । तथाहि-शैलेश्यवस्थायां मशकादीनां कायसंस्पर्शन प्राणत्यागेऽपि बन्धोपादानकारणयोगाभावान्नास्ति बन्धः, उपशान्तक्षीणमोहसयोगिकेवलिनां स्थितिनिमित्तकषायाभावात् सामयिकः, अप्रमत्तयतेर्जघन्यतोऽन्तर्मुहूर्तम् , उत्कृष्टतश्चान्तःकोटाकोटिस्थितिरिति । प्रमत्तस्य त्वनाकुट्टिकयाऽनुपेत्य प्रवृत्तस्य क्वचित्पाण्याद्यवयवसंस्पर्शात् प्राण्युपतापनादौ जघन्यत उत्कृष्टतश्च कर्मबन्धः प्राक्तन एव विशेषिततरः। स च तेनैव भवेन क्षिप्यत इति सूत्रेणैव दर्शयितुमाह-'इहलोग इत्यादि। इहास्मिन् लोके जन्मनि वेदनमनुभवनमिहलोकवेदनं तेन वेद्यमनुभवनीयमिहलोकवेदनवेद्यं तत्रापतितमिहलोकवेदनवेद्यापतितम् , इदमुक्कं भवति-प्रमत्तयतिनापि यदकामतः कृतं कर्म कायसङ्घट्टनादिना तदैहिकभवानुबन्धि, तेनैव भवेन क्षिप्यमाणत्वाद् , आकुट्टि(ट्टी)कृतकर्मणि तु यद्विधेयं तदाह 'ज आउद्दी' इत्यादि । यत्तु पुनः कर्माकुट्टया कृतमागमोक्तकारणमन्तरेणोपेत्य प्राण्युपमर्दनेन विहितं तत्परिज्ञाय ज्ञपरिज्ञया विवेकमेति विविच्यतेऽनेनेति विवेकः, प्रायश्चित्तं दशविधं तस्याऽऽन्तरं भेदमुपैति तद् , विवेकं वाऽभावाख्यमुपैति, तत्करोति येन कर्मणोऽभावो भवतीति ॥' अत्र गुर्वादेशविधायिनमभिक्रमणादिव्यापारवन्तमप्रमत्तसंयतमवश्यम्भाविजीवविराधनाभागिनमनूद्य कर्मबन्धाबन्धविशेषविधानं वृत्तौ पूरितम् , अनाकुट्टिकयाऽऽकुट्टिकया च जीवविराधनाकारिणं प्रमत्तसंयतमनूयेहलोकवेदनवेद्यापतितस्य विवेकयोग्यस्य च कर्मबन्धस्य विधानं साक्षादेव सूत्रेऽभिहितम् , तत्र केवली 'उद्देसो पासगस्स पत्थिति वचनाद् गुर्वादेशविधायित्वाभावात् सम्भावितभाविजीवघातभयाविनाभाविनियताभिक्रमणादिक्रियाभावाच नानूद्य इति तद्वहिर्भावनैवाघश्यम्भाविजीवविराधनानिमित्तकबन्धाबन्धविचार इति परोऽभिमन्यते, तन्महामृषावादविलसितम् । साक्षादेव केवलिनमनूध वृत्तौ तत्स
AAAAAAA