________________
सटिप्पणा स्वोपक्ष
गाथा-६६ ॥२४३॥
मर्थनस्य ब्रह्मणापि पराकर्तुमशक्यत्वात् । तत्रानूद्यतावच्छेदकधर्म विरोधोद्भावनेन च वृत्तिकृत एव सूत्राभिप्रायानभिज्ञता वक्तुमुपधर्मपरीक्षा
क्रान्तो देवानांप्रियस्तमेव मन्यमानस्तमेव चाऽवमन्यस इति महाकष्टं तद् । न चैतद्विरोधोद्भावनं विचार्यमाणं चमत्कारकारि, गुर्वादेश॥२४३॥
विधायित्वस्य भगवति फलतोऽभिधानाविरोधाद् , अत एव " किं ते भंते ! जत्ता ? सोमिला ! जं मे तवणियमसंजमसज्झायज्झाणायस्सयमाईसु जयणा । सेतं जत्ता" । इत्यत्र सूत्रे एतेषु च यद्यपि भगवतो न किञ्चित्तदानीं विशेषतः सम्भवति, तथापि तत्फलसद्भा- वाचदस्तीत्यवगन्तव्यमित्युक्तम् । अभिक्रमणादियतनाव्यापाराश्च यादृशाश्छद्मस्थसंयतानामयतनामयाविनाभाविनस्तादृशा एवायतना| भयाभावेऽपि भगवतः सम्भवन्त्येव साधुसमानधर्मतयैव तस्याकल्पिकपरिहारादियतनावदभिक्रमणादियतनाया अप्युपपत्तेरिति न किञ्चि
देतत् । यत्त्ववश्यम्भावित्वं प्रायोऽसम्भविसम्भविकार्यत्वम् , यदेव हि प्रायोऽसम्भवि सत् कदाचित्सम्भवति तदेवावश्यम्भावीति व्यवलाहियते, अन्यथा सर्वमपि कार्यमवश्यम्भावित्वेन वक्तव्यं स्यात् , पञ्चसमवायवादिभिजनैः सर्वस्यापि कार्यस्य नियतिजन्यतामधिकृत्या
वश्यम्भावित्वेनेष्टत्वात् , कालादिषु पञ्चसु कारणेषु नियतेरपि परिगणनाद्, अत एव जमालिनिमित्तकनिह्ववमार्गोत्पत्तिरवश्यम्भाविनीति प्रवचने प्रतीतिः । तीर्थकरदीक्षितशिष्यात् निदवमार्गोत्पत्तेः प्रायोऽसम्भविसम्भवाद्, एवमप्रमत्तसंयतस्य कायादिव्यापाराजायमानानाभोगवशेन कादाचित्कीत्यवश्यम्भाविनी वक्तुं युज्यते मतु केवलिनः, तस्य तत्कादाचित्कतानियामकानाभोगाभावादिति नावश्यम्भाविविराधनावन्तं केवलिनमनूध किमपि विचारणीयमस्ति' इति परेणो ष्यते, तदसद् । अनाभोगादेरिव विषयासन्निधानादेर
पिकादाचिकत्वेनावश्यम्भावित्वोपपत्तेः केवलिनोऽप्यप्रमत्तयतेरिवावश्यम्भाविजीवविराधनोपपत्तेः। अन्यथा तमधिकृत्य वृत्तिकृता जयत्सामयिककर्मबन्धाबन्धव्याख्यानं कृतं तस्यात्यन्तमनुपपत्तेः। किञ्च अवश्यम्भाविनी जीवविराधना प्रायोऽसम्भविसम्भवाऽप्रमत्तस्यैव