SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ मा नतु प्रमत्तस्य, तदीयकायव्यापाराजायमानस्य जीवघातस्य प्रायः सम्भविसम्भवत्वात् , प्रमत्तयोगानां तथास्वभावत्वाद् , अत एव प्रम-12 धर्मपरीक्षा है सटिप्पणा त्तसंयतस्य प्रमत्तयोगानङ्गीकृत्यारम्भिकी क्रियापि, तेषां योगानां जीवघातार्हत्वाद्, अन्यथा प्रमत्ताप्रमत्तयोरविशेषः सम्पयेतेति पर ॥ स्वोपक्ष ॥२४४॥ | स्वाभ्युपगमेऽवस्थितसूत्रस्यैवानुपपत्तिः, अनाकुट्टिकयाउनुपेत्य प्रवृत्तमवश्यम्भाविजीवविराधनावन्तं प्रमत्तसंयतमधिकृत्यैवेहलोकवेदन- वृतिः ॥ वेद्यापतितफर्मबन्धस्य साक्षात्सूत्रेऽभिधानात् , तस्य च जीवविराधनाया अवश्यम्भावित्वस्य प्रायः सम्भविसम्भवत्वेन परेण निषेधात् , गाथा-६६ तस्मानायं पन्थाः, किन्त्वनभिमतत्वे सत्यवर्जनीयसामग्रीकत्वमवश्यम्भावित्वव्यवहारविषयः, अत एव जिज्ञासितयोयोर्वस्तुनोः पुरः |॥२४४॥ स्थितयोरेकस्य दर्शनार्थमुन्मीलितेन चक्षुषाऽपरस्यापि दर्शनमवश्यं भवतीति व्यवहियते । अत एव च जमालेभंगवता दीक्षणे निह्न| वमार्गोत्पादस्यावश्यम्भावित्वमपि नानुपपन्नम् , तदानीं तस्यानभिमतस्याप्यवर्जनीयसामग्रीकत्वाद् एवंविधा चावश्यम्भाविनी विरा| धना संयतानां सर्वेषामपि सम्भवतीति तानधिकृत्य वृत्तिकृदुक्ता व्यवस्था केवलिन्यपि युक्तिमत्येवेति । वस्तुतः सर्वस्यापि कार्यस्य पुरुषकारभवितव्यतोभयजन्यत्वेऽपीदं कार्य पुरुषकारजनितमिदं च भवितव्यताजनितमिति विभक्तो व्यवहार एकैकस्योत्कटत्वलक्षणां बहुत्वलक्षणां वा मुख्यतामादायैव शास्त्रकाररुपपादितः! ॥ तदिह साधूनामनाकुट्या जायमाने जीवघाते भवितव्यताया एव मुख्यतया | व्याप्रियमाणत्वात् तत्रावश्यम्भावित्वव्यवहारः, न त्वनाभोगजन्यत्वमेव तत्र तन्त्रम् , आभोगपूर्वकस्य कारणिकस्यापि तस्य विवेकयो| ग्यबन्धहेतोः पृथक्करणेनेहलोकवेदनवेद्यापतितकर्मबन्धहेतुतया परिशेषितस्यावश्यम्भावित्वेनैव परिगणनात् , ततो जीवरक्षापरिणामव-13 तामाकुट्या जीवघातप्रवृत्तिरहितानां सर्वेषामेव संयतानां या काचिद्विराधना भवति साऽवश्यम्भाविनीति कायस्पर्शमनुचीर्णैः प्राणिभिरुपजायमानां तामाश्रित्याऽऽकेवलिनं वृत्ति कृदुक्तव्यवस्थायां न कोऽपि सन्देह इति सूक्ष्ममीक्षणीयम् । एवं सत्यपि परस्येयं शङ्को MORROSONAL
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy