________________
धर्मपरीक्षा ॥१८२॥
सटिप्पणा ॥खोपत्र वृत्तिः ॥ गाथा-५१ ॥१८२॥
ऽऽभोगपूर्वकजीवघातहेतुन्वेन यथाऽशुभत्वं तथा केवलिन आपवादिकस्य धर्मार्थमन्या धर्मोपकरणस धरणेऽपि त्वन्मतनीन्याऽऽभोगपूर्वकपरिग्रहग्रहणस्य फलोपहितयोग्यतया हेतूनां योगानामशुभत्वापत्तिः स्फूटवेति । अथ यद्यपवादेन धर्मोपकरणग्रहणं भगवतोऽभ्युपगम्येत तदा स्वादयं दोपः, अपवादं च केवलिनः कदापि नाभ्युपगच्छामः, तस्य प्रतिपिद्धप्रतिपेवणान्मकत्वेन स्वरूपतः सावद्यत्वात् । निवर्धत्वं चास्य पुष्टालम्बनप्रतिपेधितस्य रोगविशेषविनाशकस्य परिकर्मितवत्सनागस्येव प्रायश्तिप्रतिपच्यादिना सोपाधिकमेव । यापि 'भगाए णाविओ णदो" [ 'गंगायां नाविको नन्दः' इत्यादि धर्मरुचिकथानके द्रष्टव्यम् । ] इत्यादिव्यतिकरोपलक्षितस्य धर्मरुचे रनगारस्य नाविकादिव्यापादनप्रवृत्तिः सापि परमार्थपर्यालोचनायां पुष्टालम्बनैव, तत्कृतोपसर्गस्य ज्ञानादिहानिहेतुत्वाद् , ज्ञानादिहानिजन्यपरलोकानाराधनाभयेन प्रतिपिद्धप्रवृत्तेः पुष्टालम्बनमूलत्वात् : केवलं शक्त्यभावभावाभ्यां पुष्टालम्बनतदितरापवादयोः प्रशस्ताप्र- शस्तसज्वलनकपायोदयकृतो विशेपो द्रष्टव्यःः ज्ञानादिहानिभयं च केवलिनो न भवतीति तस्य नापवादवाापि । यच्च धर्मोपकरणधरणं तद्वयवहारनयप्रामाण्यार्थम् , व्यवहारनयस्यापि भगवतः प्रमाणीकर्तव्यत्वाद् । इत्थं च श्रुतोदितरूपेण धर्मोपकरणधरणे न केवलिलक्षणहानिः, 'इदं सावद्यम्' इति प्रज्ञाप्य तत्प्रतिपेवणाद्, अत एव-"ववहारो वि हु बलवं, जं वंदड़ केवली वि छउमत्यं ।। आहाकम्मं मुंजइ, मुअबवहारं पमाणतो" ।।२२९॥ (पुष्पमाला) नवृत्तिः-"न केवलं निश्चयोऽपि तु स्वविपये व्यवहारोऽपि बलवान् । यद्यस्मात्कारणात् समुत्पन्न केवलज्ञानोऽपि शिप्यो यद्यपि निश्चयतो विनयसाध्यस्य कार्यस्य सिद्धत्वात्केवली न कस्यचिद्वन्दनादिविनयं कगेति, तथापि व्यवहाग्नयमनुवर्तमानः पूर्वविहितविनयो गुरुं वन्दते-आसनदानादिकं च विनयं तस्य तथैव करोति, याबदद्यापि | न ज्ञायते, ज्ञात पुनगुरुपि निवारयत्येवेति भावः । अपरं च---अतीवगृढाचारेण केनचिद् गृहिणा विहितमाधाकर्म तच्च श्रुतोक्त