________________
कर्मपरीक्षा ॥१८॥
सटिप्पणा ॥स्वोपन वृतिः ॥ गाथा-५१ |॥१८३॥
परीक्षया परीक्षमाणेनाप्यशठेन छद्मस्थसाधुनाऽविज्ञातं गृहीत्वा केवलिनिमित्तमानीतं यथावस्थितं च केवलिनस्तजानतो निश्चयनयमतेनाभोक्तव्यमपि श्रुतरूपं व्यवहारनयं प्रमाणीकुर्वन्नसो भुङ्क्त एव, अन्यथा श्रुतमप्रमाणं कृतं स्यात् , एतच्च किल न कर्त्तव्यम् , व्यवहारस्य सर्वस्य प्रायः श्रुतेनैव प्रवर्तमानत्वात् , तस्माद् व्यवहारनयोऽपि बलवानव केवलिना समर्थितत्वाद् ।” इति पुष्पमालासूत्रवृत्त्यादिवचनात् केवलिनोऽनेषणीयाहारस्य प्रवृत्तिसिद्धावपि नापवादसिद्धिः, ज्ञानादिहानिभयेन तत्राऽप्रवृत्तेः, श्रुतव्यवहारशुद्धयर्थमेव तत्र प्रवृत्तः, तत्र 'इदं सावद्यम्' इति भणितेरभावान्न वचनविरोधः। 'यदि च तदनेषणीयं कथञ्चित कदाचिदपि केवलिना भुक्तम्' इति छद्मस्थज्ञानगोचरीभवेत् तर्हि केवली न भुत एव केवल्यपेक्षया श्रुतव्यवहारशुद्धेरेवाभावाद्, 'अशुद्धमिति ज्ञात्वापि | केवलिना भुक्तम्' इति छद्मस्थेन ज्ञातत्वात् । अत एव रकातिसारोपशमनार्थ रेवतीकृतकूष्माण्डपाको भगवता श्रीमहावीरेण प्रतिषिद्धः, कदाचित्साधुना श्रुतव्यवहारशुद्धथानीतोऽपि रेवती तु जानात्येव-पद् भगवता श्रीमहावीरेण ज्ञात्वैव भुक्तं इति छद्मस्थज्ञानगोचरत्वेन श्रुतव्यवहारभङ्ग एवेति । एतेन केवलिनोभिप्रायाभावाजीवघातादौ सत्यपि न दोष इति पराशङ्कापि परास्ता, रेवतीकृतकूष्माण्डपाकपरित्यागानुपपत्तिप्रसक्तेः । किश्च-खतन्त्रक्रियावतो ज्ञानपूर्वकप्रवृत्तावभिप्रायाभावं वक्तुं का समर्थः । न च श्रुतव्यवहारशुद्धमनेषणीयं भुञ्जानः केवली सावधप्रतिषेधि(वि)ता भविष्यतीति शङ्कनीयम् , सर्वेषामपि व्यवहाराणां जिनाज्ञारूपत्वेन श्रुतव्यवहारस्य सावद्यत्वाभावात् , तच्छुद्धथानीतस्य निरवद्यत्वाद् । अयं भावः-यथाऽप्रमत्तसंयतो जीववधेऽप्यवधकः, 'अवहगो सो उ' गा० ७५०'त्ति [ अवधक: स तु । ] ओघनियुक्तिवचनात् , अनाभोगे सत्यप्यप्रमत्ततायास्तथामाहात्म्यात् , यथा चोपशान्तमोहवीतरागो मोहसत्तामात्रहेतुके सत्यपि जीवघाते केवलिवद्वीतरागो नोत्सूत्रचारी च, मोहनीयानुदयस्य तथामाहात्म्यात् , तथा श्रुतव्य
NE
-HEIBAR