________________
ट
धर्मपरीक्षा ॥१८॥
सटिप्पणा ॥खोपन
गाथा-५१ ॥१८॥
ABHISHEKHABARGUST
वहारशुद्धर्माहात्म्यादनेषणीयमपीतरैषणीयमेवेति कुतः सावधप्रतिषेवित्वगन्धोऽपीति चेत् , तदिदमखिलं गूढशब्दमात्रेणैव मुग्धप्रतारणम् । यतो यदि भगवत्स्वीकृतद्रव्यपरिग्रहानेषणीयाहारयोः स्वरूपतः सावद्यत्वेऽपि श्रुतव्यवहारशुद्धस्योपादेयत्वधिया दोषानावहत्वं तदाऽपवादस्थानीयत्वमेव तयोः प्राप्तम् , औपाधिकशुद्धताशालित्वात् । न चापवादः स्थविरकल्पनियत इति कल्पातीतस्य भगवतस्तदभावः, एवं सत्युत्सर्गस्याप्यभावापत्तेः, तस्यापि जिनकल्पस्थविरकल्पनियतत्वाद् । यदि चोत्सर्गविशेष एव कल्पनियत इति तत्सामान्यस्य भगवति नासम्भवस्तदाऽपवादविशेषस्यैव तथात्वे तत्सामान्यस्थापि भगवत्यनपायत्वमेव । युक्तं चैतत् , तीर्थकृतोऽप्यतिशयाधुपजीवनरू| पखजीतकल्पादन्यत्र साधुसामान्यधर्मताप्रतिपादनात् । तदुक्तं बृहत्कल्पभाष्यवृत्त्योः उद्देश. १-"अत्र परः प्राह-यदि यद्य
त्प्राचीनगुरुभिराचीण तत्तत्पाश्चात्यैरप्याचरितव्यम् , तर्हि तीर्थकरैः प्राकारत्रयच्छत्रत्रयादिका प्राभृतिका तेषामेवार्थाय सुरविरचिता यथा | समुपजीविता, तथा वयमप्यस्मन्निमित्तकृतं किं नोपजीवामः । सूरिराह-कामं खलु अणुगुरुणो, धम्मा तह वि हु ण सव्यसाहम्मा। गुरुणो जंतु अइसए, पाहुडिआई समुवजीवे ॥९९६॥ काममनुमतं, खल्वस्माकं, यदनुगुरवो धर्मास्तथापि न सर्वसाधा चिन्त्यते, किन्तु देशसाधादेव। तथाहि-गुरवस्तीर्थकराः, यत्तु यत्पुनः, अतिशयान् प्राभृतिकादीन , प्राभृतिका सुरेन्द्रादिकृता समवसरणरचना तदादीन् , आदिशब्दादवस्थितनखरोमाधोमुखकण्टकादिसुरकृतातिशयपरिग्रहः; समुपजीवन्ति स तीर्थकुजीतकल्प इति कृत्वा न तत्रानुधर्मता चिन्तनीया, यत्र पुनस्तीर्थकृतामितरेषां च साधूनां सामान्यधर्मत्वं तत्रैवानुधर्मताचिन्त्यते ॥ सा चेयमाचीऐति दर्श्यते ॥ सगड-दह-समभोमे, अविअ विसेसेण विरहिअतरागं ॥ तहवि खलु अणाइन्न, एसऽणुधम्मो पवयणस्स ॥९९७॥ यदा भगवान श्रीमन्महावीरस्वामी राजगृहनगरादुदायननरेन्द्रप्रव्राजनार्थ सिन्धुसौवीरदेशवतंसं वीतभयं नगरं प्रस्थितस्तदा
%-5