________________
धर्मपरीक्षा ॥१८॥
सटिप्पणा ॥खोपक्ष हुचिः ॥ माथा-५१ ॥१८॥
1265585
यावदनारम्भाः । अशुभ योग प्रतीत्य आत्मारम्भा अपि यावद् नो अनारम्भा इति ॥ ] अत्रापि प्रमत्तसंयतानां सामान्यतः प्रमत्ततासिद्धयर्थ तदीययोगानां स्वरूपयोग्यतयाऽभोगपूर्वकजीवघातहेतुत्वं वक्तव्यम् , कादाचित्काशुभयोगजन्यारम्भकत्वसिद्धयर्थ चाभो. गोऽपि घात्यजीवविषयत्वेन व्यक्तो वक्तव्यः, तद्वत एव कस्यचित्प्रमत्तस्य सुमङ्गलसाधोरिवापवादावस्थां प्राप्तस्यात्माघारम्भकत्वात् , संयतत्वं च तस्य तदानीमपवादपदोपाधिकविरतिपरिणामस्थानपायाद्, न चैवमप्रमत्तसंयतस्य भवति, तस्यापवादपदाधिकारित्वाभावेनाभोगपूर्वकजीवघातहेतूनां योगानामभावात् । यस्त्वपवादप्रतिषेवणाराहित्यावस्थायामप्यप्रमत्तानामिव सद्भूतजीवघातः स चानाभोगजन्य एव, तदानीमनाभोगस्यापि तस्य विद्यमानत्वाद् , अत एवाप्रमत्तानामिव योगानां शुभत्वेन नात्माघारम्भकत्वमिति । फलोपहितयोग्यताखरूपयोग्यतयोश्चायं भेद:-'यस्य यदन्तर्गतत्वेन विवक्षितकार्य प्रति कारणता तस्य तदन्तर्गतत्वेनैव फलवत्तया फलोपहितयोग्यता', 'अन्यथा तु खरूपयोग्यता, सत्यपि तस्य कारणत्वे तदितरसकलकारणराहित्येन विवक्षितकार्याजनकत्वात् , परं स्वरूप. योग्यता एकस्मिन्नपि कारणे सजातीयविजातीयानेकशुभाशुभकार्याणां नानाप्रकारा आधाराधेयभावसम्बन्धेन सह जाताः कारणसमानकालीनाः, फलोपहितयोग्यतास्तु खरूपयोग्यताजनिता अपि कादाचित्का एव, तदितरसकलकारणसाहित्यस्य कादाचित्कत्वात् , यच्च कादाचित्कं तत्केषाश्चित्कारणानां सम्भवन्त्योऽपि कादाचित्क्य एव मन्तव्याः; अत एव केवलिनां योगा अशुभकार्यमा प्रति सर्वकालं स्वरूपयोग्यतामाज एव भवन्ति, न पुनः कदाचिदपि फलोपहितयोग्यताभाजोऽपि, अशुभकार्यमात्रस्य कारणानां ज्ञानावरणोदयादिघातिकर्मणामभावेन तद्वितरसकलकारणसाहित्याभावात् । शुभकार्याणां तु यथासम्भवं कदाचित्फलोपहितयोग्यतापि स्यात् , तथैव | तदितरसकलकारणसाहित्यस्य सम्भवादिति न कश्चिद्विरोधः। इत्थं चापवाददशायां प्रमत्तसंयतानां योगानां फलोपहितयोग्यतया.
S