SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥१८॥ सटिप्पणा | खोपड चिः ॥ गाथा-५१ ॥१८॥ RSSSSSSSONG हिंसादेरेव तथात्वाद् , धर्मोपकरणरूपे द्रव्याश्रवे तु संयतानां नानाभोगेनैव प्रवृत्तिः, किन्तु धर्माधर्मार्थमत्याऽपरिग्रहत्वाभोगेनैवेति |स्वकारणलब्धजन्मनस्तस्य भगवत्यविरोधः-इत्याशङ्कायामाहअववाओवगमे पुण, इत्थं नृणं पइण्णहाणी ते ॥ पावंति असुहजोगा, एवं च जिणस्स तुज्झ मए ॥५१॥ [अपवादोपगमे पुनरित्थं नूनं प्रतिज्ञाहानिस्ते । प्राप्नुवन्ति अशुभयोगा एवं च जिनस्य तव मते ॥५१॥] 'अववाओवगमे पुण'त्ति, अत्र भगवतो द्रव्यपरिग्रहे. अपवादोपगमेऽपवादाङ्गीकारे, पुनस्ते तव, प्रतिज्ञाहानिः, अपवादप्रतिषेवणं च संयतेष्वपि प्रमत्तस्यैव भवतीति तव प्रतिज्ञेति । च पुनः, एवं धर्मोपकरणसद्भावनापवादतो द्रव्याश्रवाभ्युपगमे, तब मते जिनस्याशुभयोगाः प्राप्नुवन्ति । इदं हि तव मतम्-योगानामशुभत्वं तावन्न जीवघातहेतुत्वमात्रेण, उपशान्तगुणस्थानं यावदप्रमत्तसंयतानां कदाचित्सद्भुतजीवघातसम्भवेन भग०शत०१२०१ "तत्थ णं जे ते अपमत्तसंजया ते णं णो आयारंभा, णो परारंभा, णो तदुभयारंभा, अणारंभा" [तत्र ये ते अप्रमत्तसंयतास्ते नो आत्मारम्भा नो परारम्भा नो तदुभयारम्भाः अनारम्भाः ॥] इत्याग मप्रतिपादितानारम्भकत्वानुपपत्तिप्रसक्तेरशुभयोगानामारम्भकत्वव्यवस्थितेः, किन्तु फलोपहितयोग्यतया घात्यजीवविषयकाभोग| पूर्वकजीवघातहेतुत्वेन; अत्र फलोपहितयोग्यतयेति पदं केवलियोगानामशुभत्वनिवारणार्थमेव, तेषां खरूपयोग्यतयैव यथोक्तजीवघातहेतुत्वाद् , न पुनः फलोपहितयोग्यतयापि, कारणानामभावात् । तथाऽशुभत्वं प्रमत्तयोगानामेव तदभिव्यञ्जकं तु प्रमत्तयोगानां फलवच्छुभाशुभत्वाभ्यां द्वैविध्याभिधायकमागमवचनमेव । तथा हि-"तत्थ णं जे ते पमत्तसंजया ते ण सुहं जोगं पडुच्च णो आयारंभा, जाव अणारंभा। असुहं जोगं पडुच्च आयारंभावि जाव णो अणारंभत्ति।" [तत्र ये ते प्रमत्तसंयतास्ते शुभं योगं प्रतीत्य नो आत्मारम्भा SARASHARA
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy