SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥१७९॥ सटिप्पणा ॥स्वोपक्ष वृषिः ॥ गाथा-५० ॥१७९॥ धमोहनीयक्षयोपशमादिसहकारिकारणविशिष्टाः परिग्रहत्यागहेतब इत्यनाभोगमोहनीयाभावे केवलियोगानां परिग्रहग्रहणे केवलज्ञानमेव सहकारिकारणमिति यावत्केवलिनो धर्मोपकरणधरणं तावत् संरक्षणानुबन्धिरौद्रध्यानमक्षतमेवेति । द्रव्यपरिग्रहऽभिलापमूलसंरक्षणीयत्वज्ञानाभावान्न रौद्रध्यानमिति यदि विभाव्यते, तदा द्रव्यहिंसायामपि स्वयोगनिमित्तकहिंसाप्रतियोगिनि जीवे स्वेष्टहिंसाप्रतियोगित्वरूपधात्वत्वज्ञानाभावादेव न तदिति प्रगुणमेव पन्थानं किमिति न वीक्षसे ? ॥५०॥ अथ वस्त्रादिधरणं साधोरुत्सर्गतो नास्त्येव, कारणिकत्वात् ; “तिहिं ठाणेहिं वत्थं धरेजा, हिरिवत्तियं परीसहवत्तिय दुगंछावत्तियं' (स्थानांग) [त्रिभिः स्थानः वस्त्रं धारयेत् -ह्रीप्रत्ययं परिषहप्रत्ययं जुगुप्साप्रत्ययम् ॥] इत्यागमेऽभिधानात् , किन्त्वापवादिकम् । तद्धरणकारणं च जिनकल्पायोग्यानां स्थविरकल्पिकानां सार्वदिकमेव, निरतिशयत्वादिति तद्धरणमपि सार्वदिकं प्राप्तम् । तदुक्तं विशेषावश्यके–“विहियं सुए च्चिय जओ, धरेज तिहि कारणेहिं वत्थं ति ॥ तेणं चिय तदवस, णिरतिसएणं धरेयव्वं ॥ २६०२ ॥ जिणकप्पाजोग्गाणं, ही-कुच्छ-परिसहा जओ वस्सं ॥ ही लज्जत्ति व सो सं-जमो, तयत्थं विसेसेणं ॥२६०३॥"ति [विहितं श्रुत एव यतो धारयेत् त्रिभिः कारणैः वस्त्रमिति । तेनैव तदव| इयं निरतिशयेन धारयितव्यं ॥ जिनकल्पायोग्यानां ह्रीकुत्सापरिषहा यतोऽवश्यम् । ही लज्जेति वा स संयमस्तदर्थ विशेषेण ॥ इति । 'भगवतश्च यद्यपि वस्त्रादिधरणं ह्री-कुत्सापरिषहप्रत्ययं न सम्भवति, तस्य तदभावात् , तथापि शीतोष्णादिपरीपहप्रत्ययं तत् , आहारनिमित्तक्षुत्पिपासापरीपहवद्वस्त्रधरणनिमित्तशीतोष्णादिपरिषहसत्ताया अपि भगवत्यविरोधात् , तथाप्रकारेण तथाविधं कर्म क्षपणीयमित्यभिप्रायोच्च न रागादिविकल्पः, तथाविधसाध्वाचारस्थितिपरिपालनाभिप्रायेणैव वा तदिति धर्मार्थमत्युपगृहीतत्वाद् द्रव्यपरिग्रहे भगवतो न दोषः । यजातीयव्याश्रवे संयतानामनाभोगेनैव प्रवृत्तिस्तज्जातीयद्रव्याश्रवस्यैव मोहजन्यत्वाभ्युपगमादनर्थदण्डभूतद्रव्य
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy