SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥१७८॥ m-0%AAAA न द्रव्याअवपरिणतिर्मोहजन्येति भावः ॥४९॥ अनयैव प्रतिबन्धा केवलिनो द्रव्यहिंसायां सत्यां रौद्रध्यानप्रसङ्गं परापादितं परिहरनाहएएणं.दव्ववहे, जिणस्स हिंसाणुबंधसंपत्ती॥ इय वयणं पक्खित्तं, सारक्खणभावसारिच्छा ॥ ५० ॥ सटिप्पणा ॥खोपड़ . [एतेन द्रव्यवधे जिनस्य हिंसानुबंधसंप्राप्तिः । इति वचनं प्रक्षिप्तं संरक्षणभावसादृश्यात् ॥ ५० ॥] वृतिः ॥ . 'एएण'ति । एतेन द्रव्यपरिग्रहयुतस्यापि भगवतो मोहाभावेन, द्रव्यवधेऽभ्युपगम्यमाने, जिनस्य हिंसानुबन्धसम्प्राप्तिः माधा-५. हिंसानुबन्धिरौद्रध्यानप्रसङ्गः, छद्मस्थसंयतानां हि घात्यजीवविषयकानाभोगसहकृतमोहनीयलक्षणसहकारिकारणवशेन कायादिव्यापारा ॥१८॥ जीवघातहेतवो भवन्ति, त एव च योगा घात्यजीवविषयकाभोगसहकृततथाविधमोहनीयक्षयोपशमादिसहकारिकारणविशिष्टा जीवरक्षा-16 हेतव इत्यनुभवसिद्धम् । केवलिनस्तु योगाः पराभिप्रायेणानाभोगमोहनीयाद्यभावेन परिशेषात् केवलज्ञानसहकृता एव जीवघातहेतवो भवन्ति, केवलज्ञानेन 'एतावन्तो जीवा अमुकक्षेत्रादौ ममावश्यं हन्तव्याः' इति ज्ञात्वैव केवलिना तद्घातातू , तथा च तस्य जीवरक्षादिकं कदापि न भवेत् , केवलज्ञानसहकृततद्योगानां सदा घातकत्वात् , जीवघातस्येव जीवरक्षायाम(अ)प्यवश्यभावित्वेन परिज्ञानाद्, उभयत्र केवलज्ञानस्य सहकारिकारणत्वकल्पने च केवलिनो योगानां जीवघातजीवरक्षाहेतू शुभाशुभत्वे सर्वकालं युगपद् भवतः ॥ एतच्चानुपपन्नम् , परस्परं प्रतिबन्धकत्वादित्येकतरस्याभ्युपगमे परामिप्रायेण सर्वकालमशुभत्वमेव सिद्धयतीति हन्तव्यचरमजीवहननं यावद्धिंसानुबन्धिरौद्रध्यानप्रसङ्गः, इति-एतद्वचनं परस्य, प्रक्षिप्तम् , संरक्षणभावस्य संरक्षणानुबन्धिरौद्रध्यानस्य, सादृश्याद् द्रव्यपरिग्रहाभ्युपगमे भगवतस्तुल्ययोगक्षेमत्वात् । शक्यं ह्यत्रापि भवादृशेन वक्तुम् , छद्मस्थसंयतानां परिग्राह्यवस्तुविषयकानाभोगसहकृतमोहनीयलक्षणसहकारिकारणवशेन कायादिव्यापाराः परिग्रहग्रहणहेतवः, अत एव च परिग्राह्यवस्तुविषयकाऽऽभोगसहकृततथावि. PAAAAAAE ABAR
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy